SearchBrowseAboutContactDonate
Page Preview
Page 686
Loading...
Download File
Download File
Page Text
________________ स्वोपज्ञलघुवृत्तिः [४८१] एते इकणन्ता निपात्यन्ते । शान्दिको वैयाकरणः, दादरिको वादित्रकृत्, लालाटिकः प्रमत्तः सेवाकृत् , कौक्कुटिको भिक्षुः॥ ४५ ॥ समूहार्थात् समवेते । ६ । ४ । ४६ । अस्माद् द्वितीयान्तात् समवेतेऽर्थे इकण् स्यात् । सामूहिकः, सामाजिकः ॥ ४६ ॥ पर्षदो ण्यः। ६ । ४ । ४७। अस्माद् द्वितीयान्तात समवेते ण्यः स्यात् । पार्षयः॥ सेनाया वा । ६ । ४।४८ । अस्माद् द्वितीयान्तात् समवेते ण्यो वास्यात् । सैन्यः, सैनिकः ॥४८॥ धर्माऽधर्मात् चरति । ६ । ४ । १९ । आभ्यां द्वितायान्तांम्यां चरत्यर्थे इकण् स्यात् । धार्मिक, आधर्मिकः ॥ ४९ ॥ षष्ठया धर्ये । ६ । ४। ५०॥ षष्ठ्यन्ताद धर्मादनपेते इकण् स्यात । शौल्कशालिकम् ॥ ५० ॥ ऋत्-नराऽऽदेरण । ६ । ४ । ५१ । ऋदन्ताद् नराऽऽदेश्च षष्ठयन्तादू धर्येऽण् स्यात। नारं, नरस्य धर्म्यम् नारं माहिषम् ॥५१॥ १ प्रथम नारमिति ऋदन्तस्योदाहरणम् । नुर्धर्म्यमिति विग्रहः। एवं पितुधर्म्य पैत्रम् , शास्तुः शास्त्रमित्यादि । ऋतो १-२-२१ सूत्रेण रः। णित्वादादे वृदिः । स्त्रियामुभयत्रापि नारीति । इकण्वाधनार्थ नरशब्दस्य पृथग् ग्रहणं कृतम्।' नारं माहिषमिति नरादेरुदाहरणे स्तः। .
SR No.002220
Book TitleSiddh Hemchandra Vyakaranam
Original Sutra AuthorN/A
AuthorHimanshuvijay
PublisherAnandji Kalyanji Pedhi
Publication Year
Total Pages1054
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy