SearchBrowseAboutContactDonate
Page Preview
Page 685
Loading...
Download File
Download File
Page Text
________________ [४८०] हैमशब्दानुशासनस्य माथोत्तरपद-पद-व्याक्रन्दाद् धावति ।६।४।४०| मोथ उत्तरपदं यस्य तस्मात् , पदव्याक्रन्दाभ्यां च द्वितीयान्ताभ्यां च धावत्यर्थे इकण् स्यात् । दाण्डमाथिका, पादविका, आक्रन्दिकः ॥ ४०॥ पश्चात्यनुपदात् ।६।४। ४१ पश्चादर्थाद् अनुपदाद् द्वितीयान्तात् धावति इकण स्यात् । आनुपदिकः ॥ ४१॥ सुस्नाताऽऽदिभ्यः पृच्छति । ६ । ४ । ४२ । एभ्यो द्वितीयान्तेभ्यः पृच्छत्यर्थे इकण् स्यात् । सौस्नातिका, सौखरात्रिकः ॥ ४२ ॥ . प्रभूताऽदिभ्यो ब्रुवति । ६ । ४ । ४३ । एभ्यो द्वितीयान्तेभ्यो ब्रुवत्यर्थे इकण् स्यात् । प्राभू. तिकः, पार्याप्तिकः ।। ४३॥ . माशब्द इत्यादिभ्यः । ६।४।४४। - एभ्यो ब्रुवति इकण् स्यात् । माशब्दिकः, कार्यशब्दिकः ।। ४४॥ शाब्दिक-दादरिक लालाटिक कौक्कुटि कम् । ६ । ४ । ४५ १ माथशब्दो मार्गार्थकः । दण्ड इव सरलो माथो मार्गः,तं धावतीति दाण्डमाथिकः। २ अत्र इतिशब्दः वाक्याकारपरिदर्शनार्थः । माशब्द इति, कार्यशब्द इति ब्रूते इति माशब्दिकः, कार्यशब्दिकः । माशन्द कार्यशब्द वा करोति इति वाचक इत्यर्थः ।
SR No.002220
Book TitleSiddh Hemchandra Vyakaranam
Original Sutra AuthorN/A
AuthorHimanshuvijay
PublisherAnandji Kalyanji Pedhi
Publication Year
Total Pages1054
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy