SearchBrowseAboutContactDonate
Page Preview
Page 672
Loading...
Download File
Download File
Page Text
________________ स्वोपझलघुवृत्तिः [४६७] . एभ्यो नटाच तस्येदमर्थे धर्माऽऽदौ ज्यः स्यात् । छान्दोग्यं धर्मादि, औक्त्थिक्यम् , याज्ञिक्यम् , बाच्यम् , नाटयम् ॥ १६६ ॥ आथर्वणिकादण, इकलुक् च । ६ । ३ । १६७ । अस्मात् तस्येदमर्थे धर्मादौ अण् स्यात, इकलुक् च । आथर्वणः ॥ १६७॥ चरणादकञ् । ६ । ३ । १६८ । चरणः कठादिः । तदर्थात् तस्येदमर्थे धर्मादायक स्यात् । काठको धर्मादिः, चारककः ॥ १६८ ॥ गात्राद् अदण्डमाणव-शिष्ये । ६ । ३ । १६९ । ____ गोत्रार्थात् तस्येदमर्थे दण्डमाणवशिष्यवर्जेऽकञ् स्यात् । औपगवकम् । अदण्डेत्यादीति किम् ? काण्वा दण्डमाणवाः शिष्या वा ॥ १३९ ॥ रैवतिकाऽऽदेरीयः। ६ । ३ । १७० । एभ्यो गोत्राऽर्थेभ्यस्तस्पेदमर्थे ईयः त्यात् । रैवतिकीयाः, शिव्याः, गौरग्रीवीयं शकटम् ॥ १७० ॥ कौपिजल-हास्तिपदादण् । ६।३। १७१। _ आभ्यां गोत्रार्थाभ्यां तस्येदमित्यर्थेऽण स्यात् । कौपिञ्जलाः शिष्याः, हास्तिपदाः ॥ १७१ ॥ सङ्घ-घोषाऽङ्ग-लक्षणेऽज्ञ-यञ्-इत्रः ।६।३।१७२ । एतदन्ताद् गोत्रार्थात् तस्येदमर्थे सङ्घादावण् स्यात् । वैदः सङ्घादिः, बैदं लक्षणम्, एवं गार्गः, गार्गम्, दाक्षः, दाक्षम् ॥ १७२ ॥ शाकलादकर च । ६।३।१७३। ।
SR No.002220
Book TitleSiddh Hemchandra Vyakaranam
Original Sutra AuthorN/A
AuthorHimanshuvijay
PublisherAnandji Kalyanji Pedhi
Publication Year
Total Pages1054
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy