________________
.[४६६]
हैमशब्दानुशासनस्य एभ्यस्ततः प्रभवति मयट् स्यात् । तन्मयम्, भवन्मयी ॥१५९ ॥
तस्येदम् ।६।३ । १६०। तस्येति षष्ठयन्ताद् इदमित्यर्थे ययाविहितं प्रत्ययाः स्युः। माथुरम् , दैत्यम् , कालेयम्, नादेयम् , पारीणः, भानवीयः ॥ १६० ॥
हल-सीराद् इकण् । ६ । ३ । १६१।। आम्यां तस्येदमर्थे इकम् स्यात् । हालिका , सैरिकम् ॥ १६१ ॥
समिध आधाने टेन्यण । ६।३ । १६२ । समिधस्तस्येदमाधानमित्यर्थे टेन्यण स्यात्। सामि धेन्यो मन्त्रः ॥ १६२ ॥
विवाहे द्वन्द्वाद् अकल् । ६ । ३ । १६३ । द्वन्द्वात् तस्पेदमर्थे विवाहेऽकल् स्यात् । अत्रिभरशाजिका ॥ १६३ ॥
अदेवासुराऽऽदिभ्यो वैरे।६। ३।१६४ । देवासुरादिवर्जाद् द्वन्द्वात् तस्येदमर्थे वैरे अकलू स्यात् । बाभ्रवशालकायनिका । अदेवादीति किम् ? दैवाऽसुरम् , राक्षोऽसुरम् ॥ १६४ ॥
नटात् नृत्ते यः । ६ । ३ । १६५। नटात् तस्येदमर्थे नृत्ते ज्यः स्यात् । नाट्यम् ॥ १६५ ॥ छन्दोगौक्त्थिक-याज्ञिक चबूचाच धर्माऽऽम्ना.
य-संधे । ६।३। १६६ ।