________________
[.४३८] हैमशब्दानुशासनस्य द्यावापृथिवी-शुनासीराऽमीषोम-मरुत्वत्-वास्तो. पति-गृहमेधाद् ईय-यो । ६ । २ । १०८ ।
एभ्यः साऽस्य देवतेतिविषये ईययौ स्याताम् । द्यावापृथिवीयम् , द्यावापृथिव्यम् । शुनासीरीयम् , शुना. सीर्यम् । अग्नीषोमीयम् , अग्नीपोम्यम् । मरुत्वतीयम् मरुत्वत्यम्। वास्तोपतीयम् , वास्तोष्पत्यम् । गृहमेधीयम्, गृहमेध्यम् ॥ १०८॥
वायु-ऋतु-पितृ उपसा यः । ६ । २ । १०९ ।
एभ्यः साऽस्य देवतेतिविषये य: स्यात्। वायव्यम् , मतव्यम् , पित्र्यम् , उषस्यम् ॥ १०९ ॥ - महाराज-प्रोष्ठपदाद् इकण् । ६।२१११० ।
आभ्यां साऽस्य देवतेतिविषये इकण् स्यात् । माहाराजिका, प्रौष्ठपदिकः ॥ ११० ॥
कालाद् भववत् । ६ ।२।१११॥ कालविशेषार्थेभ्यो यथा भवे प्रत्यया वक्ष्यन्ते, तया साऽस्य देवतेतिविषयेऽपि स्युः। यथा मासे भवं मासिकम्, प्रावृषि प्रावृषेण्यम् , तथा मासप्रावृदेवताकमपि ॥१११॥
आदेः छन्दसः प्रगाथे ।६।२।११२। प्रथमान्तादादेः छन्दसोऽस्येति षष्ठयथै यथाविहितं प्रत्ययः स्यात, प्रगाथे वाच्ये। पाङ्गतः प्रगाथः। आदेरिति किम् ? अनुष्टुब् मध्यमस्य प्रगाथस्य ॥ ११२ ॥
१ यत्र द्वे ऋचौ प्रग्रन्थनेन (प्रकृष्टरचनाविशेषण) प्रकर्षगानेन वा तिस्रः त्रिम स मन्त्रविशेषः प्रमाय इत्याचार्यः। पदिक्तरादिर्यस्य प्रगाथस्य स पारक्तः प्रगाथो वैदिकमन्त्रविशेष इत्यर्थः ।