________________
.. स्वोपज्ञलघुत्तिः [४३७] स्यात् । जैनः, आग्नेयः, आदित्यः ॥ १०१॥
पैगाक्षीपुत्राऽऽदेरीयः। ६ ।२।१०२। एभ्यः साऽस्य देवतेतिविषये ईयः स्यात् । पैङ्गाक्षीपुत्रीयम् , तार्णविन्दवीयं हविः ॥ १०२ ॥
शुक्राद् इयः । ६ । २ । १०३ । शुक्रात् साऽस्य देवतेतिविषये इयः स्यात् । शुक्रिय हविः ॥१०३॥
शतरुद्रात् तौ ।६।२।१०४ । .. अस्मात् सास्य देवतेतिविषये ईयः, इयश्च स्यात् । शतरुद्रीयम् , शतरुद्रियम् ॥ १०४ ॥ अपोनपात्-अपान्नपातस्तृचातः । ६ । २। १०५।
आभ्यां साऽस्य देवतेतिविषये तो स्याताम् । तद्योगे चाऽऽतस्तृच् । अपोनप्त्रीयम् , अपोनस्त्रियम् । अपानप्त्री. यम् , अपान्नस्त्रियम् ॥१०५ ॥
महेन्द्रादु वा। ६ । २ । १०६ । अस्मात् साऽस्य देवतेतिविषये तो वा स्याताम् । महेन्द्रीयम् , महेन्द्रियम्, माहेन्द्रं वा हविः ॥१०६॥
कसोमात् टयण । ६ । २११०७। . आभ्यां साऽस्य देवतेतिविषये टयण स्यात् । कार्यम् , सौम्यं हविः ॥१०७॥
१ अपोनपात्-अपानपात् इत्याभ्या ईय-इयौ स्यातां, आत्-इत्यन्तस्य च तृच् भवतीत्यर्थः।
२ को ब्रह्मा देवताऽस्येति कायम् । टित्त्वात् स्त्रियां कायीति स्यात् । णिस्वाद् वृद्धिः।