SearchBrowseAboutContactDonate
Page Preview
Page 616
Loading...
Download File
Download File
Page Text
________________ स्वोपज्ञलघुवृतिः श्याम-लक्षणाद् वाशिष्ठे । ६ । १ । ७४ । आभ्यां वाशिष्ठेऽपत्ये एयण् स्यात् । श्यामेयः, लाक्षणेयः, वाशिष्ठः ॥ ७४ ॥ विकर्ण कुपीतकात् काश्यपे । ६ । १ । ७५ । आभ्यां काश्यपेऽपत्ये यण् स्यात् । वैकर्णेयः, कौषीतकेयः काश्यपः ।। ७५ ।। भ्रुवो भ्रुव् च | ६ | १ । ७६ । [ ४११] भ्रुवोऽपत्ये एयण् स्यात् भ्रुवश्च भ्रुब् । नौवेयः ॥७६॥ कल्याण्यादेरिन चाऽन्तस्य । ६ । १ । ७७ । एम्योऽपत्ये यण् स्यात्, अन्तस्य चेन् । काल्याणिनेयः, सौभागिनेयः ॥ ७७ ॥ कुलटाया वा । ६ । १ । ७८ । अस्मादपत्ये एयण स्यात्, तद्योगे चान्तस्येन वा । कौलटिनेयः, कौलटेयः ॥ ७८ ॥ चटकात् गैरः, स्त्रियां तु लुप् ।६।१।७९। अस्मादपत्ये गैरः स्यात्, स्त्र्यर्थस्य च गैरस्य लुप् । चाटकैरः, चटकाः ॥ ७९ ॥ क्षुद्राभ्य एरण वा । ६ । १ । ८० । अङ्गहीना अनियतपुंस्का वा स्त्रियः क्षुद्राः । क्षुद्रार्थेभ्यः स्त्रीभ्य एरण वा स्यात् । काणेरः, काणेयः । दासेरः, दासेयः 11 60 11 'गोधाया दुष्टे णारश्च । ६ । १ । ८१ । गोधाया दुष्टेऽपत्ये णार परण च स्यात् । गौधारः, गौघेरो गोधायामहिजातः ॥ ८१ ॥ १ पाटलागो इति गूर्जर भाषाख्यातायां अहिना जनकेनोत्पन्न इत्यर्थः, शुभ्रादिगः ।
SR No.002220
Book TitleSiddh Hemchandra Vyakaranam
Original Sutra AuthorN/A
AuthorHimanshuvijay
PublisherAnandji Kalyanji Pedhi
Publication Year
Total Pages1054
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy