SearchBrowseAboutContactDonate
Page Preview
Page 606
Loading...
Download File
Download File
Page Text
________________ - स्वोपजलघुवृत्तिः . [४०१] युवा वृद्धं चापत्यं यथासङ्ख्यं कुत्सार्चयोर्विषये युवा वा स्यात् । गायः, गार्यायणो वा जाल्मः । वृद्धमर्चितम् । गाायणः, गार्यो वा ॥५॥ संज्ञा 'दुर्वा । ६ । १ । ६। हठात् संज्ञादुर्वा स्यात् । देवदत्तीयाः। देवदत्ताः ॥६॥ त्यदादिः । ६ । १ । ७। असौ दुः स्यात् । त्यदीयम् । तदीयम् ॥ ७ ॥ वृद्धिर्यस्य स्वरेष्वादिः। ६।१।८। यस्य स्वराणामादिः स्वरो वृद्धिः, स दुः स्यात् । आम्रगुप्तायनिः॥ ८॥ एदोद् देश एवेयादौ । ६ । १ । ९ । देशार्थस्यैव यस्य स्वराणामादिरेदोच स ईयादौ विधेये दुः स्यात् । सैपुरिका, सैपुरिकी। स्कौनगरिका, स्कौनगरिकी ॥९॥ प्राग्देशे। ६ । १ । १०। प्राग्देशार्थस्य स्वरेष्वादिरेदौच स ईयादौ कार्ये दुः स्यात् । एणीपचनीयः । गोनर्दीयः ॥ १० ॥ • वाऽऽद्यात् । ६ । १।११। ... वेति, आधादिति च द्वयमधिकृतं स्यात् । तेन तद्धि१ अयं त्यदादिदुसज्ञकः स्यात् । वृद्धयुवेति सज्ञाद्वयम् । एवं दुः। २ एणीपचने भवः, गोनर्दे देशविशेषे भव इति एणीपचनीयः, गोनर्दीयः पतञ्जलिः, पतञ्जलिस्तत्रोत्पन्नः । “दोरीयः" (६-३-३२) सूत्रादीयः। कालेऽतिव्याप्तिवारणाय देशप्रहणम् । पूर्वोत्तरेण वहन्त्याः शरावत्या नद्या पूर्वतो दक्षिणतो वा देशः प्रागदेश उच्यते। प्राङ् चासौ देशः, प्राचां वा देश इति समासः कार्यः ।
SR No.002220
Book TitleSiddh Hemchandra Vyakaranam
Original Sutra AuthorN/A
AuthorHimanshuvijay
PublisherAnandji Kalyanji Pedhi
Publication Year
Total Pages1054
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy