SearchBrowseAboutContactDonate
Page Preview
Page 605
Loading...
Download File
Download File
Page Text
________________ अर्हम् ॥ अथ षष्ठाध्यायस्य प्रथमः पादः ॥ (अथ तद्धितप्रकरणम्) तद्वितोऽणादिः । ६ । १ । १ । वक्ष्यमाणोऽणादिस्तद्धितः स्यात् । औपगवः ॥ १ ॥ पौत्रादि वृद्धम् । ६ । १ । २ । । परमप्रकृतेर्यत् पौत्रादि अपत्यं तद् वृद्धं स्यात् । गार्ग्यः, गार्गिः ॥ २ ॥ पुत्रस्तु वंश्य - ज्यायोभ्रात्रोर्जीवति प्रपौत्राद्यस्त्री युवा । ६ । १ । ३ । यः पित्राssदिः स्वस्य हेतुः । वंश्ये, ज्येष्ठभ्रातरि च जीवति प्रपौत्रादि अपत्यं स्त्रीवर्ज युवा स्यात् । गार्ग्ययणः ॥ ३ ॥ सपिण्डे वयः स्थानाधिके जीवत् वा | ६ |१| ४ | समानः पिण्डः सप्तमः पुरुषो यस्य तस्मिन् वयः, स्थानाभ्यामधिके जीवति प्रपौत्राद्यस्त्री जीवद् युवा वा स्यात् । गार्ग्यायणः, गायों वा ॥ ४ ॥ युव-वृद्धं कुत्साऽर्चे वा । ६ । १ । ५ । १ तस्मै लौकिकवैदिकशब्दसन्दर्भाय, ताभ्यः प्रकृतिभ्यो वा हितः तद्धितः । आद्यं मतं जैनेन्द्रस्य, द्वितीयं तूत्पलस्येति न्यासकारः । “हितसुखाभ्याम्” (२-२-६५) सूत्रेण चतुर्थी "हितादिभिः " ( पृ० १४३ ) सूत्रेण समासश्च ।
SR No.002220
Book TitleSiddh Hemchandra Vyakaranam
Original Sutra AuthorN/A
AuthorHimanshuvijay
PublisherAnandji Kalyanji Pedhi
Publication Year
Total Pages1054
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy