________________
स्वोपज्ञलघुवृतिः
[ ६५ ]
प्रात लिप्सायाम् । ५ । ३ । ५७ । पूर्वाद्यहेलिप्सायां गम्यायां भावाकर्घव् स्यात् । पात्रप्रग्राहेण चरति पिण्डपानार्थी भिक्षुः । लिप्सायामिति किम् ? स्रुवः प्रग्रहः शिष्यस्य ॥ ५७ ॥ समो मुष्टौ । ५ । ३ । ५८ ॥
संपूर्वाद् ग्रहेर्मुष्टिविषये धात्वर्थे भावाकर्घ स्यात् । संग्राहो मल्लस्य । मुष्टाविति किम् ? संग्रहः शिष्यस्य ।। ५८ ।।
यु-दु-द्रोः । ५ । ३ । ५९ ।
संपूर्वेभ्य एभ्यो भावाकर्घञ् स्यात् । संयावः, संदायः, संद्रावः ॥ ५९ ॥
9
नियश्वाऽनुपसर्गाद् वा । ५ । ३ । ६० । अनुपसर्गात् नियो युदुद्रोश्च भावाकर्घव् वा स्यात् । नयः, नायः । यवः, यावः । दवः, दावः । द्रवः, द्रायः । अनुपसर्गादिति किम् ? प्रणयः ॥ ६० ॥
बोदः । ५ । ३ । ६१ ।
उत्पूर्वात् नियो भावाकर्घम् स्यात् धा । उन्नायः,
. उन्नयः ॥ ६१ ॥
अवात् । ५। ३ । ६२ । अवपूर्वात् नियो भावाकर्घव् स्यात् । अवनायः ॥ ६२॥ परेर्वृते । ५ । ३ । ६३ ।
परिपूर्वात् नियो ब्रूतविषयार्थाद्भावाकर्घञ् स्यात् । परिणायेन शारीन् हन्ति । द्यूत इति किम् ? परिणयोऽस्याः ॥ ६३ ॥