SearchBrowseAboutContactDonate
Page Preview
Page 563
Loading...
Download File
Download File
Page Text
________________ [३५८] हैमशब्दानुशासनस्य सप्तमी चोर्धमौहर्तिके ।५।। १ । १२ । ऊर्ध्वमुहूर्ताद्भव ऊर्ध्वमौहर्तिकः तस्मिन् पञ्चम्यर्थहेतो वय॑त्यर्थे वर्तमानादु धातोः सप्तमी वर्तमाना च वा स्यात् । अव मुहूर्तादुपाध्यायश्वेदागच्छेत्, आगच्छति, आगन्ता वा, अथ त्वं तर्कमधीष्व ॥ १२ ॥ . . क्रियायां क्रियार्थायां तुम् णकच भविष्यन्ती ॥ ५। ३ । १३ । यस्माद् धातोस्तुमादिविधिस्तद्वाच्या क्रियाऽर्थः प्रयोजनं यस्यास्तस्यां क्रियायामुपपदे वत्स्यदर्थाद्धातोस्तुमादयः स्युः । कर्तुम्, कारकः, करिष्यामीति वा याति । क्रियायामिति किम् ? भिक्षिष्ये इत्यस्य जटाः । क्रियायामिति किम् ? धावतस्ते पतिष्यति वासः ॥ १३ ॥ कर्मणोऽण् । ५।३।१४। क्रियायां क्रियार्थायामुपपदे कर्मणः पराद् वयदर्थाद्धातोरण स्यात् । कुम्भकारो याति ॥ १४ ॥ भाववचनाः।५।३।१५। भाववचना घअक्त्यादयः, ते क्रियायां क्रियार्थायामुपपदे वर्त्यदर्थाद्धातोः स्युः। पाकाय, पक्तये, पचनाय वा याति ॥१५॥ पद-रुज-विश-स्पृशो पत्र । ५। ३।१६ । एभ्यो घञ् स्यात्। पादा, रोगः, वेशः, स्पर्शः ॥१६॥ सर्तेः स्थिर-व्याधि-बल-मत्स्ये । ५। ३ । १७ । . सर्तेरेषु कर्तृषु घञ् स्यात् । सारः स्थिरः, अतीसारो व्याधिः, सारो बलम्, विसारो मत्स्यः ॥ १७ ॥ ...
SR No.002220
Book TitleSiddh Hemchandra Vyakaranam
Original Sutra AuthorN/A
AuthorHimanshuvijay
PublisherAnandji Kalyanji Pedhi
Publication Year
Total Pages1054
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy