SearchBrowseAboutContactDonate
Page Preview
Page 562
Loading...
Download File
Download File
Page Text
________________ स्वोपज्ञलघुवृत्तिः [ ३५७ ] पुरा- याक्तोर्वर्त्तमाना । ५ । ३ । ७ । अनयोरुपपदयोर्वदर्थाद् धातोर्वर्तमाना स्थात् । पुरा भुङ्क्ते, यावद् मुङ्क्ते ॥ ७ ॥ कदा - कर्बोर्नवा | ५ |३|| अनयोरुपपदयोर्वदर्थाद्धातोर्वर्त्तमाना वा स्यात् । कदा भुङ्क्ते, कदा भोक्ष्यते, कदा भोक्ता, कर्हि भुङ्क्ते, कर्हि भोक्ष्यते, कर्हि भोक्ता ॥ ८ ॥ किंवृत्ते लिप्सायाम् । ५ । ३ । ९ । विभक्तिडतरडतमान्तस्य किमो वृत्तं किंवृत्तं । तस्मिन्नुपपदे प्रष्टुलिप्सायां गम्यमानायां वत्र्त्स्यदर्थाद् घातोर्त्तमाना वा स्यात् । को भवतां भिक्षां ददाति दास्यति, दाता वा । एवं कतरः कतमः । किंवृत्त इति किम् ? भिक्षां दास्यति । लिप्सायामिति किम् ? कः पुरं यास्यति ? ॥ ९ ॥ 9 लिप्स्यसिद्धौ । ५ । ३ । १० । लब्धुमिष्यमाणाद् भक्तादेः सिद्धौ फलावाप्तौ गम्यायां वत्स्याद्धातोर्वर्तमाना वा स्यात् । यो भिक्षां ददाति दास्यति, दाता वा स स्वर्गलोकं याति यास्यति, याता वा ॥ १० ॥ पञ्चम्यर्थतौ | ५ | ३ | ११ । पञ्चम्यर्थः त्रैषादिः, तस्य हेतुरुपाध्यायाऽऽगमनादिः । तस्मिन्नर्थे वत्स्यति वर्त्तमानाद् धातोर्वर्त्तमाना वा स्यात् । उपाध्यायश्चेद् आगच्छति, आगमिष्यति, आयन्ता वा, अथ त्वं सूत्रमधीष्व ॥ ११ ॥
SR No.002220
Book TitleSiddh Hemchandra Vyakaranam
Original Sutra AuthorN/A
AuthorHimanshuvijay
PublisherAnandji Kalyanji Pedhi
Publication Year
Total Pages1054
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy