SearchBrowseAboutContactDonate
Page Preview
Page 528
Loading...
Download File
Download File
Page Text
________________ स्वोपज्ञलघुवृत्तिः [३२३] बेगोचि ब्रूवः स्यात् । ब्राह्मणब्रुवः ॥ ५१ ॥ नन्यादिभ्योऽनः।५।१ । ५२ । एभ्यो नामगणदृष्टेभ्योऽनः स्यात् । नन्दना, वासना, सहनः, संक्रन्दनः, सर्वदमनः, नर्दनः ॥ ५२ ॥ ग्रहादिभ्यो णिन् । ५ । १ । ५३ । एभ्यो णिन् स्यात् । ग्राही, स्थायी ॥ ५३ ॥ नाम्युपान्त्य-प्री-कृग्र-ज्ञः कः । ५। १ । ५४ । नाम्युपान्त्येभ्यो धातुभ्यः प्रधादिभ्यश्च कः स्यात् । विक्षिपः, प्रियः, किरः, गिरः, ज्ञः ॥ ५४॥ गेहे ग्रहः । ५। १ । ५५ । । गेहेऽर्थे ग्रहः कः स्यात् । गृहम्, गृहाः ॥ ५५ ॥ उपसर्गाद् आतो डेोऽश्यः । ५। १ । ५६ । ' उपसर्गात् परात् श्यैङ्वर्जादाकारान्ताद्धातोर्डः स्यात्। आह्वः । उपसर्गादिति किम् ? दायः। अश्य इति किम् ? अवश्यायः ॥५६॥ व्याघाऽऽऽ प्राणि-नसाः।५।१। ५७। एतौ यथासङ्ख्यं प्राणिनि नासिकायां चार्थे घो डे निपात्यते । व्याघः, आघ्रा ॥ ५७ ॥ घा-मा-पा-दधे-दृशःशः। ५। १ । ५८ । एभ्यः शः स्यात् । जिघ्रः, उद्धमः, पिवः, उद्धयः, उत्पश्यः ॥ ५८॥ साहि-साति-वेद्युदेजि-धारिपारि-चेतेरनुपसर्गात ।५।१ । ५९ । १ पुंसि तु बहुवचनान्त एव दारार्थे । दारार्थश्च गृहशब्द उपचारात् ।
SR No.002220
Book TitleSiddh Hemchandra Vyakaranam
Original Sutra AuthorN/A
AuthorHimanshuvijay
PublisherAnandji Kalyanji Pedhi
Publication Year
Total Pages1054
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy