SearchBrowseAboutContactDonate
Page Preview
Page 527
Loading...
Download File
Download File
Page Text
________________ [३२२] हैमशब्दानुशासनस्य जि-विपू-न्यो हलि-मुज-कल्के । ५। १ । ४३ । जेर्विपूर्वाभ्यां च पूनीभ्यां यथासङ्ख्यं हलिमुञ्जकल्केषु कर्मसु क्यप् स्यात् । जित्यो हलिः विपूयो मुञ्जः, विनीय कल्कः। हलिमुञ्जकल्क इति किम् ? जेयम्, विपव्यम् , विनेयम् ॥ ४३॥ पदाऽस्वैरि-बाह्या-पक्ष्ये-ग्रहः । ५। १। ४४ । एष्वर्थेषु ग्रहेः क्यप् स्यात् । प्रगृह्यं पदम्, गृह्याः परतन्त्राः, ग्रामगृह्या बाह्येत्यर्थः, गुणगृह्या गुणपक्ष्याः॥४४॥ __ भृगोऽसंज्ञायाम् । ५। १ । ४५ । भृगोऽसंज्ञायां क्यप् स्यात्। भृत्यः पोष्यः । असंज्ञायामिति किम् ? भार्या पत्नी ॥४५॥ सुमो वा । ५। १ । ४६ । संपूर्वाद् भृगःक्या वास्यात्। संभृत्यः, संभार्यः ॥४६॥ ते कृत्याः । ५। १ । ४७। ध्यण्तव्याऽनीय-य-क्यप्प्रत्ययाः कृत्याः स्युः ॥४७॥ णक-तृचौ। ५।१।४८। धातोरेतौ कर्तरि स्याताम् । पाचकः, पक्ता ॥४८॥ अच । ५। १ । ४९ । धातोरच स्यात् । करः, हरः ।। ४९ ॥ लिहादिभ्यः। ५। १ । ५० । एभ्योऽच् स्यात् । लेहः, शेषः ॥ ५० ॥ 'ब्रुवः। ५। १ । ५१ । १ ब्राह्मणमात्मानं ब्रूते इति ब्राह्मणब्रुवः, अण्वचादेशगुणबाधनार्थ निपातः ।
SR No.002220
Book TitleSiddh Hemchandra Vyakaranam
Original Sutra AuthorN/A
AuthorHimanshuvijay
PublisherAnandji Kalyanji Pedhi
Publication Year
Total Pages1054
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy