________________
स्वोपक्षलघुति [३१३] हृस्वस्य तः पित्कृति । ४।४।११३ । ... ह्रस्वान्तस्य धातोः पिति कृति त् अन्तः स्यात् । जगत् । ह्रस्वस्येति किम् ? ग्रामणीः । कृतीति किम् ? अजुहवुः ॥११३ ॥
अतो म आने ।४।४।११४। । पातोर्विहिते आने अतो मोऽन्तः स्यात् । पचमानः । अत इति किम् ? शयानः ॥११४ ॥
आसीनः । ४ । ४ । ११५। आस्तेः परस्य आनस्यादेरीनिपात्यते । आसीना, उदासीनः ॥ ११५॥
ऋतां क्डि तीर । ४ । ४ । ११६ । ऋदन्तस्य धातोः क्ङिति प्रत्यये ऋत् इर् स्यात् । तीर्णम् , किरति ॥ ११६॥
ओष्ठयादुर् । ४।४ । ११७ । - धातोरोष्ठयात् परस्य ऋतः विडत्युर् स्यात् । पू:, बुभूर्षति, वुवूर्षते ॥ ११७ ॥
इस आसः शासोऽङ्-व्यञ्जने । ४ । २ । ११८। .. शास्तेरासोऽङि क्ङिति व्यञ्जनादौ च परे इस् स्यात्। अशिषत् , शिष्टः । अव्यञ्जन इति किम् ? शासति ॥ ११८ ॥
क्यौ । ४।४।११९ । शास आसः क्वो इस् स्यात् । मित्रशीः ॥ ११९ ॥
आड: । ४।४।१२०। आङः परस्य शास आसः क्वावेव इस् स्यात् । आ.