________________
स्वोपज्ञलघुवृत्तिः । [२८१] . ऋतः स्वरे वा । ४ । ३ । ४३ ।
मृजे ऋतःस्वरादौ प्रत्यये वृद्धिर्वा स्यात्। परिमार्जन्ति, परिमृजन्ति । ऋत इति किम् ? ममार्ज । स्वर इति किम् । मृज्वः ॥४३॥
सिचि परस्मै समानस्याडिति ।४।३।४४। समानान्तस्य धातोः परस्मैपदविषये सिच्यङिति वृद्धिः स्यात् । अचैषीत् । परस्मैपद इति किम् ? अच्योष्ट। समानस्येति किम् ? अगवीत् । अङितीति किम् ? न्यनुवीत् ॥ ४४ ॥
व्यञ्जनानामनिटि । ४।३।४५। व्यञ्जनान्तस्य धातोः परस्मैपदविषये अनिटि सिचि समानस्य वृद्धिः स्यात् । अराङ्क्षीत् । समानस्येत्येव ? उदवोढाम् । अनिटीति किम् ? अतक्षीत् ॥ ४५ ॥
वोर्गुगः सेटि । ४ । ३ । ४६ ।। ऊण्णाः सेटि सिचि परस्मैपदे वृद्धिर्वा स्यात् । प्रौर्णावीत् , प्रोणवीत् प्रौण्णुवीत् ॥ ४६॥
व्यञ्जनादेवोपान्त्यस्याऽतः । ४ । ३ । ४७।। व्यञ्जनादेर्धातोरुपान्त्यस्यातः सेटि सित्रि परस्मैपदे वृद्धिर्वा स्यात् । अकाणीत्, अकणीत् । व्यञ्जनादेरिति किम् १ मा भवान् अटीत् । उपान्त्यस्येति किम् ? अवधीत्। अत इति किम् ? अदेवीत्। सेटीत्येव ? अधाक्षीत् ॥४७॥
वद-व्रज-लः । ४ | ३ | ४८। वदव्रजोर्लन्तरन्तयोश्योपान्तस्याऽस्य परस्मैपदे सेटि