SearchBrowseAboutContactDonate
Page Preview
Page 485
Loading...
Download File
Download File
Page Text
________________ [२८०] हैमशब्दानुशासनस्य · सिजाशिषौ किद्वत् स्याताम्। अभित्त, भित्सीष्ट। आत्मने इति किम् ? अस्राक्षीत् ॥ ३५ ।। ऋवर्णात् । ४ । ३ । ३६ । ___ऋवर्णान्ताद् धातोरनिटावात्मनेपदविषयौ सिजाशिषौ किद्वत् स्याताम् । अकृत, कृषीष्ट, अतीष्ट, तीर्पोष्ट ॥ ३६॥ गमो वा । ४।३। ३७ । गमेरात्मनेपदविषयौ सिजाशिषौ किद्वा स्याताम् । समगत, समगस्त । संगसीष्ट, संगंसीष्ट ॥ ३७॥ हनः सिच । ४ । ३ । ३८ । हन्तेरात्मनेपदविषयः सिन् किद्वत् स्यात् । आहत ॥३८॥ यमः सूचने । ४ । ३ । ३९ । सूचनार्थाद् यमेरात्मनेपदविषयः सिच् किद्वत् स्यात्। उदायत । सूचन इति किम् ? आयस्त रज्जुम् ॥ ३९ ॥ वा स्वीकृतौ । ४।३।४०। स्वीकारार्थाद् यमेरात्मनेपदविषयः सिन् किद्वद्वा स्यात् । उपायत, उपायंस्त महास्त्राणि । स्वीकृताविति किम् ? आयंस्त पाणिम् ॥४०॥ इश्च स्था-दः। ४।३। ४१ । स्थो दासंज्ञकाचऽऽत्मनेपदविषयः सिन् किद्वत स्यात् , तद्योगे स्था-दोरिश्च । उपास्थित, आदित, व्यधित ॥ ४१ ॥ मृजोऽस्य वृद्धिः। ४।३। ४२ । ___ मृजेगुणे सत्यस्य वृद्धिः स्यात्। मार्टि । अत इति किम् ? मृष्टः ॥ ४२ ॥
SR No.002220
Book TitleSiddh Hemchandra Vyakaranam
Original Sutra AuthorN/A
AuthorHimanshuvijay
PublisherAnandji Kalyanji Pedhi
Publication Year
Total Pages1054
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy