SearchBrowseAboutContactDonate
Page Preview
Page 234
Loading...
Download File
Download File
Page Text
________________ [२९] स्वोपज्ञलघुवृत्तिः स्मातौ स्याताम् । सर्वस्मै, सर्वस्मात् । सर्व, विश्व, उभ, उभयट् , अन्य,अन्यतर,इतर, डतर, डतम,त्व, त्वत्, नेम, समसिमौ-सर्वार्थों, पूर्वपरावरदक्षिणोत्तरापराधराणि व्यवस्थायाम् , स्वमज्ञातिधनाख्यायाम्, अन्तरम्बहिर्योगोपसंव्यानयोरपुरि, त्यद्, तद्, यद्, अदस्, इदम् एतद्, एक, द्वि, युष्मद्, अस्मद्, भवतु, किम् ; इत्यसंज्ञायां सर्वादिः ॥ ७॥ डेः स्मिन् । १।४।८। मादेरदन्तस्य : स्मिन् स्यात् । सर्वस्मिन् ॥ ८॥ जस इः । १।४।९। सर्वादेरदन्तस्य जस इः स्यात् । सर्वे ॥९॥ नेमा प्रथमचरमतयाऽयाऽल्पकतिपयस्य वा ।१।४।१० __नेमादीनि नामानि तयायौ प्रत्ययौ तेषामदन्तानां जस इर्वा स्यात् । नेमे, नेमाः। अर्द्ध, अर्धाः। प्रथमे, प्रथमाः। चरमे, चरमाः । द्वितये, द्वितयाः। त्रये, त्रयाः । अल्पे, अल्पाः । कतिपये, कतिपयाः ॥१०॥ द्वन्द्वे वा। १।४।११। .. द्वन्द्वसमासस्थस्यादन्तस्य सर्वादेर्जस इर्वा स्यात् । पूर्वोत्तरे पूर्वोत्तराः ॥ ११ ॥ न सर्वादिः। १ । ४ । १२ । द्वन्द्वे सर्वादिः सर्वादिर्न स्यात् । पूर्वापराय, पूर्वापरात्, पूर्वापरे । कतरकतमानाम् , कतरकतमकाः ॥१२॥ . तृतीयान्तात् पूर्वावरं योगे । १।४।१३। तृतीयान्तात्परौ पूर्वावरौ योगे सम्बन्धे सति सर्वादी
SR No.002220
Book TitleSiddh Hemchandra Vyakaranam
Original Sutra AuthorN/A
AuthorHimanshuvijay
PublisherAnandji Kalyanji Pedhi
Publication Year
Total Pages1054
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy