SearchBrowseAboutContactDonate
Page Preview
Page 233
Loading...
Download File
Download File
Page Text
________________ चतुर्थः पादः अत आः स्यादौ जस्भ्याम्ये। १।४।१। स्यादौ जसि भ्यामि ये च परेऽकारस्य आः स्यात् । देवाः, आभ्याम् , सुखाय । स्यादाविति किम् ? बाणान् जस्यतीति क्विप्-बाणजः ॥१॥ भिस् ऐस । १।४।२। आत्परस्य स्यादेर्भिस ऐस् स्यात् । देवैः। ऐस्करणा दतिजरसैः ॥२॥ इदमदसोऽक्येव । १ । ४ । ३ । इदमदसोरक्येव सति आत्परस्य भिस ऐस् स्यात् । इमकैः, अमुकैः। अक्येवेति किम् ? एभिः, अमीभिः॥३॥ एबहस्भोसि।१।४।४। । बह्वर्थे स्यादौ सादौ भादौ ओसि च परे अत एतस्यात् एषु, एभिः, देवयोः ॥ ४॥ . टाङसोरिनस्यौ । १ । ४ । ५। आत्परयोष्टाङसोर्यथासंख्यं इन स्यौ स्याताम् । तेन, यस्य ॥५॥ डेङस्योर्यातौ १ । ४।६। आत्परस्य डेड सेश्च यथासंख्यं य आच स्याताम् । देवाय, देवात् ॥ ६॥ . सर्वादेः स्मैस्मातौ । १।४ । ७। सादरदन्तस्य सम्बन्धिनो ङस्योर्यथासंख्यं स्मै
SR No.002220
Book TitleSiddh Hemchandra Vyakaranam
Original Sutra AuthorN/A
AuthorHimanshuvijay
PublisherAnandji Kalyanji Pedhi
Publication Year
Total Pages1054
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy