________________
[२] हैमशब्दानुशासनस्य ।
लोकात् । १ । १।३।। अनुक्तानां संज्ञानां न्यायानांच लोकाद् वैयाकरणादेः सिद्धिप्तिश्च वेदितव्या, वर्णसमानायस्य चतंत्र
औदन्ताः स्वराः । १ । १ । ४ । - औकारावसाना वर्णाः स्वरसंज्ञाः स्युः। अ आ इ ई उ ऊ ऋ ऋ ल ल ए ऐ ओ औ ॥ ४ ॥
एक-द्वि-त्रिमात्रा हस्व-दीर्घ-प्लुताः ।१।१।५। - मात्रा कालविशेषः। एकद्विव्युचारणमात्रा औदन्ता वर्णा यथासङ्खयं हस्वदीर्घप्लुतसंज्ञाः स्युः। अ इ उ . ल आ ई ऊ ऋ लू ए ऐ ओ औ, आ ३ ई ३ ऊ ३ इत्यादि ॥५॥
अनवर्णा नामी । १ । १।६। - अवर्णवळ औदन्ता वर्णा नामिसंज्ञाः स्युः। इ ई उ ऊ ऋ ऋ ल ल ए ऐ ओ औ॥ ६॥
लृदन्ताः समानाः । १।१ । ७। लकारावसाना वर्णाः समानाः स्युः। अ आ इ ई उ ऊ ऋ ऋ लु लू ॥ ७॥
ए ऐ ओ औ सन्ध्यक्षरम् । १ । १।८। ए ऐ ओ औ इत्येते सन्ध्यक्षराणि स्युः ॥ ८॥
अं-अः अनुस्वार-विसगौं । १ । १।९। अकाराबुच्चारणार्थो। 'अं' इति नासिक्यो वर्णः। 'अ' इति च कण्ठ्यः। एतौ यथासङ्घयमनुस्वारविसर्गों स्याताम् ॥९॥
"कादिय॑ञ्जनम् । १ । १ । १० ।