________________
श्रीहेमचन्द्राचार्यविरचितं स्वो प ज ल घु वृत्ति सं व लि तं श्री सिद्धहेमचन्द्रशब्दानुशासनम् ।
प्रणम्य परमात्मानं श्रेयःशब्दानुशासनम् । आचार्यहेमचन्द्रेण स्मृत्वा किञ्चित् प्रकाश्यते ॥१॥
अहे । १।१।१। अहमित्येतदक्षरं परमेश्वरस्य परमेष्ठिनो वाचकम् , मङ्गलार्थ शास्त्रस्याऽऽदौ प्रणिदध्महे ॥ १ ॥
सिद्धिः स्यादादात् । १ । १।२।
स्याद्वादादनेकान्तवादात् प्रकृतानां शब्दानां सिद्धिनिष्पत्तिज्ञप्तिश्च वेदितव्या ॥२॥ .
ओं अहं नमः । १ ग्रस्तुतहैमव्याकरणबृहवृत्तावपीदमेवाद्यं पद्यमस्ति । 'श्रेयः' इति शब्दानामनुशासनस्य परस्याऽऽत्मनो वा विशेषणम् । शब्दानामनुशासनं शब्दानुशासनं व्याकरणशास्त्रमित्यन्वर्थ नामास्ति। आचार्यः शास्त्राणां ज्ञाता उपदेष्टा वा। हेमः स्वार्थे, चन्द्रश्च हिमांश्वर्थकः शब्दः, तद्गुणतत्समत्वाभ्यां मयूरव्यंसकादितः कर्मधारये हेमचन्द्रेति सिध्यति । आचार्येत्यस्य विशेषणत्वेन पूर्वनिपाते. आचार्यहेमचन्द्र इति, तेन । तृतीया च षष्ठीपक्षे ज्ञेया । 'किञ्चित्' इति क्रियाविशेषणम् । अत्र साधवः शब्दा अभिधेयाः। प्रयोजनं च तेषां सम्यग्ज्ञानमिति श्रेयःशब्दाद् वेद्यम् ।
. २'अहँ" इति सानुनासिकं मान्तं वाऽव्ययं सकलागमरहस्यभूतं योगिजनाङ्गोकृतं महाप्रभावकं मन्त्राक्षरमिति तद्विद आहुः (योगशास्त्रम् ८)। अत एवात्रान्यत्र चाऽऽचार्यो मङ्गलस्वेनेदमाद्यमुल्लिखति । विष्णुब्रह्मशिवोनामप्ययं वाचक इति कनकप्रभः ग्राह। 'प्रणिदध्महे' इत्यत्र बहुवचनं ध्येयगुणबाहुल्यात् कर्तुस्तदभेदेन, " अविशेषणे द्वौ चास्मदः ” ( पृ० ८८) इति सूत्रेण वा निर्दोषमस्ति, नाऽऽचार्यगर्वद्योतकमिति वेद्यम् ।