________________
(१४४)
परिशिष्टेषु डस्युक्तानां विभक्त्यन्तानामेव कृदन्तैर्विभक्त्युत्पत्तेः प्रागेव समासः। ८९ समासतद्धितानां वृत्तिर्विकल्पेन वृत्तिविषये च नित्यैवापवादवृत्तिः। ९० आदशभ्यः संख्या संख्येये वर्तते न संख्याने। ९१ एकशब्दस्यासं. ख्यात्वं क्वचित् । ९२ णौ यत्कृतं कार्य तत्सर्व स्थानिवद् भवति । ९३ द्विबद्धं सुबद्धं भवति । ९४ आत्मनेपदमनित्यम् । ९५ क्विपि व्यञ्जनकार्यमनित्यम् । ९६ स्थानिवद्भा वपुंवद्भावैकशेषद्वन्द्वैकत्वदीर्घत्वान्यनित्यानि । ९७ अनित्यो णिच्चुरादीनाम् । ९८ णिलोपोऽप्यनित्यः। ९९ णिच्संनियोगे एव चुरादीनामदन्तता । १०० धातवोऽनेकार्थाः । १०१ गत्यर्था ज्ञानार्थाः । १०२ नाम्नां व्युत्पत्तिरव्यवस्थिता। १०३ उणदयोऽव्युत्पन्नानि नामानि । १०४ शुद्धधातूनामकृत्रिम रूपम् । १०५ किवन्ता धातुत्वं नोज्झन्ति शब्दत्वं च प्रतिपद्यन्ते । १०६ उभयस्थाननिष्पन्नोऽन्यतरव्यपदेशभाकू । १०७ अवयवे कृतं लिङ्गं समुदायमपि विशिनष्टि चेत्तं समुदायं सोऽवयवो न व्यभिचरति । १०८ येन धातुना युक्ताः प्रादयस्तं प्रत्ये. वोपसर्गसंज्ञाः । १०९ यत्रोपसर्गत्वं न संभवति तत्रोपसगवशादेव प्रादयो लक्ष्यन्ते न तु संभवत्युपसर्गत्वे । ११० शीलादिप्रत्ययेषु नासरूपोत्सर्गविधिः। ११९ त्यादिष्व. न्योन्यं नासरूपोत्सर्गविधिः। ११२ स्त्रीखलना अलो बाधका स्त्रियाः खलनौ । ११३ यावत् सभवस्तावद्विधिः । ११४ संभवे व्यभिचारे च विशेषणमर्थवत् । ११५ सर्व वाक्यं सावधारणम् । ११६ परार्थे प्रयुज्यमानः शब्दो वतमन्तरेणापि वर्थं गमयति । ११७ द्वौ नौ प्रकृतमर्थ