________________
हैभपरिमाषा
(१४३) उत्सर्गादपवादः। ५६ अपवादान् कचिदुत्सर्गोऽपि । ५७ नानिष्टार्था शास्त्रप्रवृत्तिः । ५८ प्रकृतिग्रहणे स्वार्थिकप्रत्ययान्तानामपि ग्रहणम् । ५९ प्रत्ययाप्रत्ययोः प्रत्यय. स्यैव । ६० अदाद्यनदाद्योरनदादेरेव । ६१ प्राकरणिकाप्राकरणिकयो प्राकरणिकस्यैव । ६२ निरनुन्धग्रहणे सामान्येन । ६३ साहचर्यात् सदृशस्यैव । ६४ वर्णग्रहणे जातिग्रहणम् । ६५ वर्णेकदेशोऽपि वर्णग्रहणेन गृह्यते। ६६ तन्मध्यपतितस्तद्ग्रहणेन गृह्यते। ६७ आगमा यद्गुणीभूतास्तद्ग्रहणेन गृह्यन्ते। ६८ स्वाङ्गामव्यवधायि । ६९ उपसा न व्यवधायी। ७० येन नाव्यवधा तेन व्यवहितेऽपि स्यात् । ७१ ककारापदिष्टं कार्य लुकारस्यापि । ७३ सकारापदिष्टं तदादेशस्य शकारस्यापि । ७३ हस्वदीर्घापदिष्टं कार्य न प्लुतस्य । ७४ संज्ञोत्तरपदाधिकारे प्रत्ययग्रहणे प्रत्ययमात्रस्यैव ग्रहणं न तदन्तस्य । ७५ ग्रहणवता नाम्ना न तदन्तविधिः। ७६ अनिनस्मन्ग्रहणान्यर्थवताऽनर्थकेन च तदन्तविधि प्रयोजयन्ति । ७७ गामादाग्रहणेष्वविशेषः । ७८ श्रुतानुमितयोः श्रौतो विधिबलीयान् । ७९ अन्तरङ्गानपि विधीन् यबादेशो बाधते । ८० सकृद्गते स्पर्द्ध यद् बाधितं तद् बाधितमेव । ८१ द्वित्वे सति पूर्वस्य विकारेषु बाधको न बाधकः । ८२ कृतेऽन्यस्मिन् धातुप्रत्ययकार्ये पश्चाद् वृद्धिस्तद्वाध्योऽट् च। ८३ पूर्व पूर्वोत्तरपदयोः कार्य कार्य पश्चात् सन्धिकार्यम् । ८४ संज्ञान संज्ञान्तरबाधिका । ८५ सापेक्षमसमर्थम् । ८६प्रधानस्य तु सापेक्षत्वेऽपि समासः। ८७ तद्धितीयो भावप्रत्ययः सापेक्षादपि । ८८ गतिकारक