________________
(१४०)
परिशिष्टेषु अलावू जम्बूडुरुषः सरः सदो रोदोऽर्चिपी दामगुणे त्वयट तयट् ॥ ६॥
अथ स्वतस्त्रिलिङ्गाः। स्वतस्त्रीलिङ्गः सरकोऽनुतर्षे शललः शले। करकोऽब्दोपले कोशः शिम्बा खड्गपिधानयोः ॥१॥
जीवः प्राणेषु केदारे वलजः पवने खलः। बहुलं वृत्तनक्षत्रपुरायाभरणाभिधाः ॥२॥ भल्लातक आमलको हरीतकविभीतको। .. तारकाढकपिटकस्फुलिङ्गा विडङ्गतटौ ॥३॥ पटः पुटो वटो वाटः कपाटशकटौ कटः पेटो मठः कुण्डनीडविषाणास्तूणकङ्कतौ ॥४॥
मस्तकुथेङ्गुदजृम्भदाडिमाः पिठरप्रतिसरपात्रकन्दराः । नखरो वल्लूरो दरः पुरछत्र
कुवलमृणालमण्डलाः ॥५॥. नाल प्रणालपटलार्गलशृङ्खलकन्दलाः। पूलावहेलो कलशकटाहो षष्टिरेण्विषु ॥६॥
अथ परलिगाः। परलिङ्गो द्वंद्वोऽशी डेऽर्थो वाच्यवदपत्यमिति नियताः । अस्यारोपाभावे गुणवृत्तेराश्रयाद्वचनलिङ्गे ॥१॥ प्रकृतर्लिङ्गवचने बाधन्ते स्वार्थिकाः क्वचित् । प्रकृतिहरीतक्यादिर्न लिङ्गमतिवर्तते ॥२॥