________________
लिङ्गानुशासनम् [१३९] पुण्याहदेही पटहस्तनूरुहो लक्षाररिस्थाणुकमण्डलूनि च । चाटुश्चटुर्जन्तुकशिप्वणुस्तथा जीवातुकुस्तुम्बुरु जानु सानु च ॥ ३५ ॥ कम्वुः सक्तुर्वगुरुर्वास्तु पलाण्डुर्हिाः शिग्रुर्दोस्तितउः शीध्वथ भूमा। वेमप्रेमब्रह्मगरुल्लोमविहायः .. कर्माष्टीवत्पक्ष्म धनुर्नाममहिम्नी ॥ ३६ ॥
अथ स्त्रीक्लीबलिङ्गाः॥ स्त्रीक्लीवयोनखं शुक्तौ विश्वं मधुकमौषधे । माने लक्षं मधौ कल्पं क्रोडोऽके तिन्दुकं फले ॥१॥ तरलं यवाग्वां पुष्पे पाटल पटलं चये। वसन्ततिलकं वृत्ते कपालं भिक्षुभाजने ॥ २ ॥ अर्धपूर्वपदो नावष्टयणकत्रनटौ क्वचित्.। चोराद्यमनोज्ञाद्यकञ् कथानककशेरुके ॥३॥ वंशिकवक्रोष्ठिककन्यकुब्जपीठानि नक्तमवहित्थम् । रशनं रसनाच्छोटन शुम्ब तुम्बं महोदयं कांस्यम् ॥४॥
मृगव्यचव्ये च वणिज्यवीर्यनासीरगात्रापरमन्दिराणि । तमिस्रशस्त्रे नगरं मसूरत्वक्क्षीरकादम्बरकाहलानि ॥५॥ स्थालीकदल्यौ स्थलजालपित्तला गोलायुगल्यो बडिशं च छर्दि च ।