________________
(१२६) परिशिष्टेषु गिरिशिश्रुजायुकवा हाहाहूहूश्च नग्नहूर्गमुत् । पादश्मानावात्मा पाप्मस्थेमोष्मयक्ष्माणः ॥ १७ ॥
॥ अथ स्त्रीलिङ्गः ॥ स्त्रीलिङ्ग योनिमम्रीसेनावल्लितडिन्निशाम् ॥ वीचितन्द्रावटुग्रीवाजिह्वाशस्त्रीदयादिशाम् ॥१॥ शिंशपाद्या नदीवीणाज्योत्स्नाचीरीतिथीधियाम् । अङ्गुलीकलशीकङ्गुहिङ्गुपत्रीसुरानसाम् ॥ २ ॥ रास्नाशिलावचालालाशिम्बाकृष्णोष्णिकाश्रियाम् । स्पृकापण्यातसीधाय्यासरघारोचनाभुवाम् ॥ ३ ॥ हरिद्रामांसिदूर्वाऽऽलूबलाकाकृष्णलागिराम् । इत्तु प्राण्यङ्गवाचि स्यादीदूदेकस्वरं कृतः ॥ ४ ॥ पात्रादिवर्जितादन्तोत्तरपदः समाहारे । द्विगुरन्नाबन्तान्तो वाऽन्यस्तु सर्वो नपुंसकः ॥५॥ लिन्मिन्यनिण्यणिस्युक्ताः, क्वचित्तिंगल्पह्रस्वे का । विंशत्याद्याशताद्वन्द्वे सा चैक्ये द्वन्द्वमेययोः ॥६॥ सुग्गीतिलताभिदि ध्रुवा विडनरि वारिघटीभवन्धयोः। शल्यध्वनिवाद्यमित्सु तु वेडा दुन्दुभिरक्षविन्दुषु॥७॥ गृह्या शाखापुरेऽइमन्तेऽन्तिका कीला रताहतौ । रज्जो रश्मिर्यवादिर्दोषादौ गञ्जा सुरागृहे ॥८॥ अहंपूर्विकादिवर्षामघा अकृत्तिका बहौ । वा तु जलौकाप्सरसः सिकता सुमनः समाः ॥९॥ गायत्र्यादय इष्टका बृहतिका संवर्तिका सर्जिकादूषीके अपि पादुका झिरुकया पर्यस्तिका मानिका ॥