________________
[८२२] प्राकृतव्याकरणम्
भिसा तुम्हेहिं । ८ । ४ । ३७१। अपभ्रंशे युष्मदो भिसासह तुम्हेहिं इत्यादेशो भवति॥ तुम्हेहिं अम्हेहिं जं किअउं दिट्ठउं बहुअ-जणेण । तं तेवडउं समर-भरु निजिउ एक-खणेण ॥ ३७१ ॥ उसि-उस्भ्यां तउ तुज्झ तुध्र । ८।४ । ३७२ ।
अपभ्रंशे युष्मदो ङसिङस्भ्यां सह तउ तुज्झ तुध्र इत्येते त्रय आदेशा भवन्ति । तउ होन्तउ आगदो। तु. ज्झ होन्तउ आगदो । तुध्र होन्तउ आगदो ॥ ङसा। तउ गुण-संपइ तुझ मदि तुभ्र अणुत्तर खन्ति । जइ उप्पत्तिं अन जण महि-मंडलि सिक्खन्ति ॥३७२।।
भ्यसाम्भ्यां तुम्हहं । ८।४।३७३ । - अपभ्रंशे युष्मदो भ्यम् आम् इत्येताभ्यां सह तुम्हहं इत्यादेशो भवति ।। तुम्हहं होन्तउ आगदो। तुम्हहं केरउं घणु ॥ ३७३ ॥
तुम्हासु सुपा । ८।४ । ३७४ । अपभ्रंशे युष्मदः सुपा सह तुम्हासु इत्यादेशो भव. ति ॥ तुम्हासु ठिअं ।। ३७४ ॥
सावस्मदो हउँ। ८ । ४ । ३७५ । अपभ्रशे अस्मदा सौ परे हउं इत्यादेशो भवति । तसु हउं कलिजुगि दुल्लहहो ॥ ३७५ ॥
जस-शसोरम्हे अम्हई । ८।४।३७६ । ।
अपभ्रंशे अस्मदो जसि शसि च परे प्रत्येकम् अम्हे अम्हई इत्यादेशौ भवतः॥