________________
घोडशाधिकार प्रकरणम्
॥ चतुर्थोऽधिकारः ।। ४९. सिद्धस्य चास्य सम्यग्निङ्गान्येतानि धर्म-तत्त्वस्य ।
विहितानि तत्त्वविद्भिः सुखावबोधाय भव्यानाम् ।।४-१।। ५०. औदार्यं दाक्षिण्यं पापजुगुप्साऽथ निर्मलो बोधः ।
लिङ्गानि धर्मसिद्धेः प्रायेण जनप्रियत्वं च ।।४-२।। ५१. औदार्यं कार्पण्य-त्यागाद्विज्ञेयमाशय-महत्त्वम् ।
गुरुदीनादिष्वौचित्त्यवृत्ति कार्ये तदत्यन्तम् ।।४-३।। ५२. दाक्षिण्यं परकृत्येष्वपि योगपरः शुभाशयो ज्ञेयः ।
गाम्भीर्य-धैर्य-सचिवो मात्सर्य-विघातकृत्परमः ।।४-४।। ५३. पाप-जुगुप्सा तु तथा सम्यक्परिशुद्धचेतसा सततम् ।
पापोद्वेगोऽकरणं तदचिन्ता चेत्यनुक्रमतः ।।४-५।। ५४. निर्मलबोधोऽप्येवं शुश्रूषाभावसंभवो ज्ञेयः ।
शम-गर्भ-शास्त्र-योगाच्छ्रत-चिन्ता-भावना-सारः ॥४-६।। ५५. युक्तं जनप्रियत्वं शुद्धं तद्धर्म-सिद्धिफलंदमलम् । __ . धर्म-प्रशंसनादेबीजाधानादिभावेन ।।४-७।। ५६. आरोग्ये सति यद्वद् व्याधिविकारा भवन्ति नो पुंसाम् ।।
तद्वद्धर्मारोग्ये पापविकारा अपि ज्ञेयाः ।।४-८॥ ५७. तनास्य विषय-तृष्णा प्रभवत्युबैर्न दृष्टि-सम्मोहः ।
अरुचिर्न धर्म-पथ्ये न च पापा क्रोध-कण्डूतिः ।।४-९।। ५८. गम्यागम्य-विभागं त्यक्त्वा सर्वत्र वर्त्तते जन्तुः ।
विषयेष्ववितृप्तात्मा यतो भृशं विषय-तृष्णेयम् ।।४-१०।। ५९. गुणतस्तुल्ये तत्त्वे संज्ञा-भेदागमान्यथादृष्टिः ।
भवति यतोऽसावधमो दोषः खलु दृष्टि-संमोहः ॥४-११।। ६०. धर्म-श्रवणेऽवज्ञा तत्त्वरसाखाद-विमुखता चैव ।
धार्मिक-सत्त्वासक्तिश्च धर्मपथ्येऽरुचेलिङ्गम् ।।४-१२।।