________________
४
३७. न प्रणिधानाद्याशयसंविद्-व्यतिरेकतोऽनुबन्धि तत् । भिन्नग्रन्थेर्निर्मलबोधवतः स्यादियं च परा ।।३-५।।
षोडशाधिकार प्रकरणम्
३८. प्रणिधि प्रवृत्ति - विघ्न-जय- -सिद्धि-विनियोग-भेदतः प्रायः । धर्मज्ञैराख्यातः शुभाशयः पञ्चधाऽत्र विधौ ।।३-६।। ३९. प्रणिधानं तत्समये स्थितिमत्तदधः कृपानुगं चैव । निरवद्य वस्तु-1 - विषयं परार्थ निष्पत्ति - सारं च ।। ३-७॥
४०. तत्रैव तु प्रवृत्तिः शुभसारोपायसङ्गतात्यन्तम् । अधिकृत-यत्नातिशयादोत्सुक्य - विवर्जिता चैव ।।३-८।।
४१. विघ्न- जयस्त्रिविधः खलु विज्ञेयो हीन - मध्यमोत्कृष्टः ।
मार्ग इह कण्टकज्वर - मोह - जय - समः प्रवृत्ति - फलः ।।३ - ९ ।। ४२. सिद्धिस्तत्तद्धर्म-स्थानावाप्तिरिह तात्त्विकी ज्ञेया ।
अधिके विनयादियुता हीने च दयादि-गुण- सारा । । ३ - १० ।। ४३. सिद्धेश्चोत्तरकार्यं विनियोगोऽवन्ध्यमेतदेतस्मिन् ।
सत्यन्वयसम्पत्त्या सुन्दरमिति तत्परं यावत् । । ३-११।। ४४. आशय-भेदा एते सर्वेऽपि हि तत्त्वतोऽवगन्तव्याः । भावोऽयमनेन विना चेष्टा द्रव्यक्रिया तुच्छा ।।३ - १२ ।। ४५. अस्मान सानुबन्धाच्छुद्धयन्तोऽवाप्यते द्रुतं क्रमशः । एतदिह धर्मतत्त्वं परमो योगो विमुक्ति- रसः ।।३-१३।। ४६. अमृत-रसास्वादज्ञः कुभक्त - रस- लालितोऽपि बहु-कम् । त्यक्त्वा तत्क्षणमेनं वाञ्छत्युचैरमृतमेव ।। ३-१४ ।। ४७. एवं त्वपूर्वकरणात्सम्यक्त्वामृतरसज्ञ इह जीवः । चिरकालासेवितमपि न जातु बहु-मन्यते पापम् ।।३ - १५ ।। ४८. यद्यपि कर्मनियोगात् करोति तत्तदपि भाव- शून्यमलम् । अत एव धर्म-योगात् क्षिप्रं तत्सिद्धिमाप्नोति ।।३-१६।।