________________
डशाधिकार प्रकरणम् २५. एतत्सचिवस्य सदा साधोबियमान भवभयं भवति ।
भवति च हितमत्यन्तं फलदं विधिनाऽऽगमग्रहणम् ।।२-९।। २६. गुरुपारतन्त्र्यमेव च तद्वहुमानात्सदाशयानुगतम् ।
परमगुरुप्राप्तेरिह बीजं तस्माश मोक्ष इति ॥२-१०।। २७. इत्यादि साधुवृत्तं मध्यमबुद्धेः सदा समाख्येयम् । .
आगमतत्त्वं तु परं बुधस्य भावप्रधानं तु ।।२- ११।। २८. वचनाराधनया खलु धर्मस्तद्वाधया त्वधर्म इति ।
इदमत्र धर्मगुह्यं सर्वस्वं चैतदेवास्य ।।२-१२।। २९. यस्मात्प्रवर्तकं भुवि निवर्तकं चान्तरात्मनो वचनम् ।
धर्मश्चैतत्संस्थो मौनीन्द्रं चैतदिह परमम् ।।२-१३।। ३०. अस्मिन् हृदयस्थे सति हृदयस्थस्तत्त्वतो मुनीन्द्र इति ।
हृदयस्थिते च तस्मिन्नियमात्सर्वार्थसंसिद्धिः ।।२-१४।। . ३१. चिन्तामणिः परोऽसौ तेनैवं भवति समरसापत्तिः । ____ सैवेह योगिमाता निर्वाणफलप्रदा प्रोक्ता ।।२- १५।। ३२. इति यः कथयति धर्म विज्ञायोचित्ययोगमनघमतिः । जनयति स एनमतुलं श्रोतृषु निर्वाण-फलदमलम् ।।२-१६।।
॥ तृतीयोऽधिकारः ।। ३३. अस्य स्वलक्षणमिदं धर्मस्य बुधैः सदैव विज्ञेयम् ।।
सर्वागम-परिशुद्धं यदादिमध्यान्त-कल्याणम् ।।३- १।। ३४. धर्मश्चित्तप्रभवो यतः क्रियाधिकरणाश्रयं कार्यम् ।
मल-विगमेनैतत्खलु पुष्ट्यादिमदेष विज्ञेयः ।।३- २॥ ३५. रागादयो मलाः खल्वागम-सद्योगतो विगम एषाम् ।
तदयं क्रियात एव हि पुष्टिः शुद्धिश्च चित्तस्य ।।३-३।। ३६. पुष्टिः पुण्योपचयः शुद्धिः पापक्षयेण निर्मलता ।
अनुबन्धिनि द्वयेऽस्मिन् क्रमेण मुक्तिः परा ज्ञेया ॥३-४।। A. तेने यं इति पाठांतरम् ।