________________
२
१३. बालादिभावमेवं सम्यग्विज्ञाय देहिनां गुरुणा । सद्धर्म देशनापि हि कर्त्तव्या तदनुसारेण । ।१-१३।। १४. यद्भाषितं मुनीन्द्रैः पापं खलु देशना परस्थाने ।
उन्मार्ग-नयनमेतद्भव-गहने दारुण-विपाकम् ।।१-१४।।
१५. हितमपि वायोरौषधमहितं तच्छ्रेष्मणो यथात्यन्तम् । सद्धर्म देशनौषधमेवं बालाद्यपेक्षमिति ।। १-१५।। १६. एतद्विज्ञायैवं यथोचितं शुद्धभावसम्पन्नः ।
षोडशाधिकार प्रकरणम्
विधिवदिह यः प्रयुङ्क्ते करोत्यसौ नियमतो बोधिम् ।।१ - १६ । । ।। द्वितीयोऽधिकारः ।।
१७. बालादीनामेषां यथोचितं तद्विदो विधिगतः । सद्धर्मदेशनायामयमिह सिद्धान्त-तत्त्वज्ञेः ।।२-१।।
१८. बाह्य-चरण- प्रधाना कर्त्तव्या देशनेह बालस्य ।
स्वयमपि च तदाचारस्तदग्रतो नियमतः सेव्यः ।। २-२ ।। १९. सम्यग् लोचविधानं ह्यनुपानत्कत्वमथ धरा शय्या । प्रहर-द्वयं रजन्याः स्वापः शीतोष्णसहनं च ।।२-३ ।। २०. षष्ठाष्टमादिरूपं चित्रं बाह्यं तपो महाकष्टम् ।
अल्पोपकरण-सन्धारणं च तच्छुद्धता चैव ।।२-४।। २१. गुर्वी पिण्ड - विशुद्धिश्चित्रा द्रव्याद्यभिग्रहाश्चैव ।
विकृतीनां सन्त्यागस्तथैक - सिक्थादि - पारणकम् ।।२-५।। २२. अनियत - विहार-कल्पः कायोत्सर्गादि-करणमनिशं च । इत्यादि बाह्यमुझेः कथनीयं भवति बालस्य ।।२-६।। २३. मध्यम- बुद्धेस्त्वीर्या समिति प्रभृति त्रिकोटि- परिशुद्धम् । आद्यन्त- मध्य- योगैर्हितदं खलु साधु- सद्वृत्तम् ।।२-७।।
.
२४. अष्टौ साधुभिरनिशं मातर इव मातरः प्रवचनस्य ।
नियमेन न मोक्तव्याः परमं कल्याणमिच्छद्भिः ।।१-८।।.