________________
षोडशाधिकार प्रकरणम्
·
।। षोडशाधिकार प्रकरणं मूलमात्रम् ।। ।। प्रथमोऽधिकारः ।।
१. प्रणिपत्य जिनं वीरं, सद्धर्म-परीक्षकादि - भावानाम् । लिङ्गादि भेदतः खलु वक्ष्ये किञ्चित्समासेन । । १ - १ । । २. बालः पश्यति लिङ्गं, मध्यम - बुद्धिर्विचारयति वृत्तम् । आगम-तत्त्वं तु बुधः, परीक्षते सर्व यत्नेन । । १ - २ ।। ३. बालो ह्यसदारम्भो, मध्यम- बुद्धिस्तु मध्यमाचारः । ज्ञेय इह तत्त्वमार्गे, बुधस्तु मार्गानुसारी यः । ।१-३।। ४. बाह्यं लिङ्गमसारं, तत्प्रतिबद्धा न धर्म- निष्पत्तिः । धारयति कार्य-वशतो, यस्मा विडम्बकोऽप्येतत् ।।१-४ ।।
५. बाह्य-ग्रन्थ-त्यागात्र चारु नन्वत्र तदितरस्यापि । कञ्चुक - मात्र त्यागान्न हि भुजगो निर्विषो भवति । ।१ - ५ ।।
६. मिथ्याचार - फलमिदं ह्यपरैरपि गीतमशुभ- भावस्य । सूत्रे ऽप्यविकलमेतत्प्रोक्तममेध्योत्करस्यापि ।। १- ६।। ७. वृत्तं चारित्रं खल्वसदारम्भविनिवृत्तिमत्तञ्च । सदनुष्ठानं प्रोक्तं कार्य हेतूपचारेण ।।१-७ ।।
८. परिशुद्धमिदं नियमादान्तर - परिणामतः सुपरिशुद्धात् । अन्यदतोऽन्यस्मादपि बुध - विज्ञेयं त्वचारुतया ।।१-८।। ९. गुरुदोषारम्भितया लंघुष्वकरण यत्त्रतो निपुण - धीभिः । निन्दादेश्च तथा ज्ञायत एतन्नियोगेन ।।१ - ९ ।। १०. आगम-तत्त्वं ज्ञेयं तद्दृष्टेष्टाविरुद्ध- - वाक्यतया । उत्सर्गादि- समन्वितमलमैदम्पर्य - शुद्धं च । ।१-१०।। १९. आत्माऽस्ति स परिणामी बद्धः सत्कर्मणा विचित्रेण । मुक्तश्च तद्वियोगाद्धिसाहिंसादि तद्धेतुः । ।१-११ ।।
१२. परलोकविधौ मानं वचनं तदतीन्द्रियार्थ दृग्व्यक्तम् । सर्वमिदमनादि स्यादैदम्पर्यस्य शुद्धिरिति ।। १- १२ ।।
१