SearchBrowseAboutContactDonate
Page Preview
Page 15
Loading...
Download File
Download File
Page Text
________________ षोडशाधिकार प्रकरणम् ६ ६१. सत्येतर - दोष - श्रुति-भावादन्तर्बहिश्च यत्स्फुरणम् । अविचार्य कार्यतत्त्वं तहिं क्रोधकण्डूतेः । । ४ - १३ ।। ६२. एते पापविकारा न प्रभवन्त्यस्य धीमतः सततम् । धर्मामृत - प्रभावाद्भवन्ति मैत्र्यादयश्च गुणाः ।।४-१४।। ६३. पर - हित- चिन्ता मैत्री पर दुःख - विनाशिनी तथा करुणा । पर - सुख - तुष्टिर्मुदिता परदोषोपेक्षणमुपेक्षा ।।४-१५।। ६४. एतज्जिन-प्रणीतं लिङ्गं खलु धर्म-सिद्धिमज्ञ्जन्तोः । पुण्यादि - सिद्धि-सिद्धेः सिद्धं सद्धेतु-भावेन ।।४ - १६ ।। ।। पञ्चमोऽधिकारः ।। ६५. एवं सिद्धे धर्मे सामान्येनेह लिङ्गसंयुक्ते । नियमेन भवति पुंसां लोकोत्तर - तत्त्व - सम्प्राप्तिः ।।५-१७।। ६६. आद्यं भावारोग्यं बीजं चैषा परस्य तस्यैव । अधिकारिणो नियोगाचरम इयं पुलावर्ते ।।५-१८ । । ६७. स भवति कालादेव प्राधान्येन सुकृतादिभावेऽपि । ज्वर - शमनौषध-समय- वदिति समयविदो विदुर्निपुणम् ।।५-१९।। ६८. नागमवचनं तदधः सम्यक्परिणमति नियम एषोऽत्र । शमनयमिवाभिनवे ज्वरोदयेऽकाल इति कृत्वा ।।५-२० ।। ६९. आगमदीपेऽध्यारोप मण्डलं तत्त्वतोऽसदेव तथा । पश्यन्त्यपवादात्मकमविषय इह मन्द-धी - नयनाः । । ५ - २१ । । ७०. तत एवाविधिसेवा दानादौ तत्प्रसिद्ध - फल एव । तत्त्वदृशामेषा पापा कथमन्यथा भवति ।। ५-२२ ।। ७१. येषामेषा तेषामागम-वचनं न परिणतं सम्यक् । अमृत - रसास्वादज्ञः को नाम विषे प्रवर्त्तत ।।५-२३ ।। ७२. तस्माचरमे नियमादागमवचनमिह पुद्गलावर्ते । परिणमति तत्त्वतः खलु स चाधिकारी भवत्यस्याः ।।५-२४ ।।
SR No.002217
Book TitleShodashadhikar Prakaranam
Original Sutra AuthorHaribhadrasuri
Author
PublisherJain Shwetambar Murtipujak Sangh
Publication Year
Total Pages34
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy