________________
॥ अत्र वृक्ष्यादिससे नवतश्वप्रकरणम्॥
(३३)
गबन्धेन ईर्यापत्रिकी २५ ॥ इति द्विचत्वारिंशदाश्रयदा इति गागार्थः ॥ आश्रवतवमुक्त्वा । षष्ठं संवरतत्त्वमाह- .
— ( सा० अ०) दिअ०' इति-इंद्रियाणि कायाः अव्रतानि यांगा: एतेषां क्रमेण पंच चत्वारः पंच त्रयः भेदा भवंति । तत्र इंद्रियाणि पंच श्रोत्रादीनि प्रसिद्धान्येव सामान्यतः । विशेषतः पुनस्तानि द्विधा द्रव्ये द्रियाणि भावेंद्रियाणि च । तत्र द्रव्ये द्रियाणि पुद्गलद्रव्यरूपाणि,भावेंद्रियाणि लब्ध्युपयोगलक्षणानि । पुनः द्रव्येद्रियाणि निवृत्युपकरणभेदात् द्विधा । निर्वृतिरपि द्विधा अंतबहिश्च । तत्र श्रीद्रियस्यान्तमध्ये कदंबकुसुमाकारा देहावयवरूपाः निवृतिरस्ति या शब्दप्रकारग्रहणे वर्तते । चक्षुरिंद्रियस्य धन्यमसूराकारा, घ्राणेंद्रियस्य अतिमुक्तकपुष्पाकास, काहलिकासदृशी वा । ग्सनेंद्रियस्य क्षुरप्राकारा, ‘स्पर्शनेंद्रियस्य नानाकारा अभ्यंतरा निर्वृतिः । बाह्या निर्वृत्तिः पुनः सर्वेषां इंद्रियाणां या दृश्यमानास्ति सैव ज्ञातव्या । उपकरणं तेषामेव पुनः कदंकाकारादीनां खड्गस्य छेदनशक्तिरिव स्वस्वविषयग्रहणशक्तिः तद्रूपं ज्ञातव्यं । एवं द्रव्येद्रियस्वरूपं प्रोक्तं । भावद्रियाणि लब्ध्युपयोगरूपाणि । जीवस्य ज्ञानावरणादिकर्मक्षयोपशमभावात् या शब्दादिग्रहणशक्तिः मा लब्धि: । येन पुनः शब्दादीनां ग्रहणपरिणामः स उपयोगः । एतदद्वयरूपाणि भावेंद्रियाणि । इति पंचापि इंद्रियाणि व्याख्यातानि । क्रोधमानमायालोभरूपाः प्रसिद्धा एव चत्वारः कषायाः, हिसामृषादत्तादानाब्रह्मपरिग्रहलक्षणानि पंचावतानि, मनोयोगः वचनयोगः काययोगश्चेति यो योगाः, इति सप्तदशभेदा आश्रवस्य व्याख्याताः । शेषाः पंचविंशतिक्रियारूपाः प्रोच्यन्ते । क्रिया: पंचविंशतिः, ताः पुनः इमा. वक्ष्यमाणलक्षणानुक्रमेण ज्ञातव्याः। तासामेव लक्षणमाह । 'काइअ' इति, 'मिच्छा दसण'० इति, 'आणवणि' इति-कायेन अयतमानेन निर्वत्ता सा कायिकी कथ्यते । १, अधिकरणिकी पशुवधादिप्रवर्तनेन खड़ादि. निवर्तनेन वाधिकरणेन निवृत्ता अधिकरणकी । २, जीवाजीवयोरुपरि प्रद्वेषेण प्राषिकी । ३, क्रोधादेः स्वपरयो: परितापेन पा. रितापनिकी । ४, प्राणातिपातेन प्राणातिपातिकी । ५, कूष्या . रंभणेन आरंभिको । ६, धान्यादिपरिग्रहेण परिग्रहिकी । , मायया परवंचनेन संजाता मायाप्रत्ययिकी। ८, जिनवचनविए