________________
३४ ) ॥ श्रीनवतत्वपरिशिष्टानि. नं. घ थी ज. ( ६ थी १० ) ॥ रोतपरिणामेन मिथ्यादर्शनेन संजाता मिथ्यादर्शनप्रत्ययिकी । ९, अप्रत्याख्यानेन अविरत्या जाता अप्रत्याख्यानिकी । १०, कौतुकादिनिरीक्षणेन दृष्टिकी । ११, रागादू द्वेषाद्वा जोवाजी वयोः स्वरूपपृच्छनेन अथवा रागादेश्व वृषभबालकादिविशिष्टवस्तूनां हस्तस्प र्शनेन निर्वृत्ता पृष्टिकी तथा स्पृष्टिकी वा । १२ जीवाजीवादी प्रतीत्य - आश्रित्य कर्मबंधनेन संजाता प्रातित्यकी । १३, स्वकी - यगजाश्ववृषभादिविशिष्टपदार्थ विलोकयितुं लोकं सर्वतः समा गच्छंतं प्रशंसा कुर्वतं दृष्ट्वा हर्षकरणेन अथवा अनाच्छादितस्नेहादिभाजने त्राणां जीवानां निपतनेन संजाता सामंतोपनिपातिकी । १४, राजाद्यादेशान्नितरां यंत्रशस्त्राद्याकर्षणेन संजाता नैशखिकी। १५, जीवेन श्वानादिना अजीवेन शस्त्रादिना शशकादिकं स्वहस्तेन मारयतः स्वाहस्तिकी । १६, जीवाजीवयोराज्ञापनेन स्वेच्छया व्यापाररूपेण आनयनेन वा आज्ञापनिकी आनयनिकी वा । १७, जीवाजीवयोर्विदारणेन स्फोटनेन वैदारणिकी । १८. शून्यचित्ततया वस्तूनामादाननिक्षेपणेन. अनाभोगिकी | १९ इह लोक परलोकविरुद्धाचरणेन हिंसादिषु व्यापाराचरणेन अनवकांक्षप्रत्ययिकी । २०, अन्या अपरा एकविंशतितमा | मनोवचन काययोग दुष्प्रणिधानेन निर्वृत्ता प्रायोगिकी | २१, अष्टानां कर्मणां समुदायेन या भवति सा सामुदायिकी । २२, मायालोभाश्रिता प्रेमिकी | २३, क्रोधमानाश्रिता द्वेषिकी । २४, केवलिनां केवलकाययोगजनितबंधेन संजाता ऐर्यापथिकी । २५, एवं क्रियाः पंचविंशतिः । एवं पूर्वोक्तसप्तदश भेदानां पंचविंशतिक्रियाणां च मीलने द्वित्वारिंशद् भेदा आश्रवस्य ज्ञातव्याः इत्थं पंचमं आश्रवतत्वं प्ररूपितम्) || अथ षष्ठं संवरतवं विवृणोति ॥
समिह गुत्ती परीसह, जइधम्मो भावणा चरिताणि । पणतिगदुवीस दसवार - पंचभेएहिं सगवन्ना ॥१६॥४१॥
( प्रा० अ० ) 'समि० ' ईर्याद्याः समितयः पञ्च, मनोगुप्तयाद्या गुप्तयस्तिस्रः, परिषहाः - "खुहा १, पिवासा २, सो ३, उन्हें ४: दंसा ५, चेला ६, ऽरइ ७, त्थोओ ८, । चरिआ ९, निसीहिआ १० ; सिजा ११; अक्कोस १२, वह १३, जायणा १४ ॥ १ ॥ अलाभ