SearchBrowseAboutContactDonate
Page Preview
Page 95
Loading...
Download File
Download File
Page Text
________________ ( ३२ ) ॥श्रीनवतत्वपरिशिष्टानि. नं. घ थी ज. (६ थी १०)॥ (१०) स्पर्शनरसनघ्राणचक्षुःश्रोत्रेन्द्रियाणि पश्च, क्रोधमानमायालोमा इति कषायचतुष्कम्, प्राणातिपातमृषावादादत्तादान मैथुनपरिग्रहसेवनरूपाण्यव्रतानि पञ्च, अशुभमनोवचनकाययोगा इति योगत्रिकम् इत्येते क्रमादनुक्रमेण पञ्चचतुःपञ्चत्रिकरूपाः स्युरिति । क्रियाश्च पञ्चविंशतिः, ताश्चेमा अनुक्रमश इति । कायेनायतनप्रवृत्तेन निर्वृत्ता कायिकी १, पशुबन्धादिप्रवर्त्तनेन अधिकरणिकी २, जीवाजीक्योरुपरि द्वेषकरणेन प्राद्वेषिकी ३, निर्वेदात क्रोधाद्वा स्वपरयोः परितापनेन पारितापनिकी ४, स्वपरहस्तमारणेन प्राणातिपातिकी ५, कृष्याद्यारम्भेणारम्भिकी ६, जीवाजीदिवस्तुसंग्रहेण तत्परिग्रहिकी ७, मायया परवञ्चनेन मायाप्रत्य यिकी ८, जिनवचनाश्रद्दधानेन, मिथ्यादर्शनप्रत्ययिकी ५, जीवाजीवयोरविरत्या अप्रत्याख्यानिकी १०, अश्वरथादिकौतुकनिरीक्षणेन दृष्टिकी ११, रागद्वेषाभ्यां जीवाजीवस्वरूपप्रच्छनेन पृच्छिकी, अथवा रागादश्वादीनां हस्तस्पर्शनेन स्पृष्टिकी १२, जीवाजीवौ प्रतीत्य कर्मबन्धनेन प्रातीत्यकी १३, गवाश्वादिकं किञ्चिद्रष्टुं समन्तानिपतन्तं प्रशंसन्तं च लोकमवलोक्य हर्षप्रकरणेन अथवाऽनाच्छादितभाजने त्रसानां समन्तादुपनिपातेन सामन्तोपनिपातिकी, १४, राजाद्यादेशान्निरन्तरं यत्र शस्त्राद्याकर्षणेन नैशस्त्रिकी १५, जीवेन श्वादिना अजीवेन शस्त्रादिना शशादिकं मारयतः स्वहस्तिकी १६, जीवाजीवयोराज्ञापनेन आनयनेन बा आज्ञापयिकी आनयनिकी वा १७, जीवाजीवयोः स्फोटनेन विदारणिकी १८, अनुपयोगाद्वस्त्रादानेन अनाभोगिकी १९, इहलोकपरलोक विरुद्धाचरणेन अनवकाङ्क्षप्रत्ययिकी २०, प्रणिहितो योगत्रयेण प्रायोगिकी २१, अष्टकर्मणां येन समुपादानं भवति तेन सामुदायिकी २२, मायालोभनिश्रिता प्रेमप्रत्ययिकी २३, क्रोधमाननिश्रिता ट्रेषिकी २४, अकषायाणां सयोगिगुणस्थानस्थानां च केवलकाययो
SR No.002216
Book TitleNavtattva Sahitya Sangraha
Original Sutra AuthorN/A
AuthorUdayvijay
PublisherMansukhbhai Manekbhai
Publication Year1922
Total Pages250
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy