________________
॥ अव० कृत्यादिसमेत नवतत्यप्रकरणम् ॥ (३१) आणवणि विआरणिआ, अणभोसा अणवकंखपचहआ। अन्नापओगसमुदाण-पिजदोसेरियावहिया ॥१५॥४०॥
(प्रा० अ० ) 'इंदि०' स्पर्शन १ रसन २ घ्राण ३ चक्षुः ४ श्रोत्रन्द्रियाणि, ५ कषाया:-क्रोधाचा:.४, अव्रतानि-प्राणातिपातादीनि ५, योगा-मनोयोगाद्याः, ३, क्रियाः पञ्चविंशतिरेवम् । कायेनायतमानेन निवृत्ता कायिकी १, पशुवधादिप्रवर्तनेन खड्गादिनिर्वतनेन वाधिकरणेन वाऽधिकरणिकी २, जीवाजीवयोरुपरि प्रद्वेषेण भवा प्राद्वेषिकी ३, निर्वेदात् क्रोधादेश्च स्वपरयोः परितापेन पारितापनिकी ४, एवं प्राणातिपातेन प्राणातिपातिकी ५, कृष्याद्यारम्भेणारम्मिकी ६, धान्यादिपरिग्रहेण पारिग्राहिकी ७, मायया परं प्रत्याययति मायाप्रत्ययिकी ८, 'मिच्छा०'. जिनवचनाश्रद्दधानेन मिथ्यादर्शनप्रत्ययिकी ९, अप्रत्याख्यानेन अप्रत्याख्यानिकी १०, कौतुकात् दृष्टया निरीक्षणेन दृष्टिकी ११, सन्देहादिपृच्छनेन पृच्छिकी १२, रागादश्वादीनां हस्तस्पर्शेन स्पृष्टिकी वा । जीवाजीवौ प्रतीत्य कर्मबन्धेन प्रातित्यकी १३, स्वगवावादिकं द्रष्टुं समन्तादुपनिपतन्तं प्रशंसन्तं च लोकमवलोक्य हर्षकरणेन सामन्तोपनिपातिकी, अथवा ऽनाच्छादितभाजनेन त्रसानां समन्तादुपनिपातेन सामन्तोपनिपातिकी १४, राजाद्यादेशान्नितरां यन्त्रशस्त्राधाकर्षणेन नैशस्त्रिकी १५, स्वहस्तेन जीवं शशकादिकं लात्वा जीवेन श्वादिनाऽजीवेन शस्त्रादिना मारयत: स्वाहस्तिकी १६, 'आणवणि'० जीवाजीवयोराज्ञापनेन आज्ञापनिकी आनयनेन आनयनिकी वा १७, जीवाजीवयोविंदारणेन विदारणिको १८, अनुपयोगावस्त्रादानग्रहणेन अनाभोगिकी १९, इहलोकपरलोकविरोधाचरणेन अनवकाङ्कप्रत्ययिकी क्रिया २०, अन्या एकविंशतितमा दुष्प्रणिधानयोगत्रयेण प्रायोगिकी क्रिया २१, अष्टकर्मणां समुदानं येन भवति तेन सामुदानिकी क्रिया अथवा मेलापकं कृत्वा यल्लिंपनावष्कंदादि क्रियते सा सामुदायिकी क्रिया, २२, मायालोभरूपप्रेम्णा भवः प्रेमिकी क्रिया २३, क्रोधमानरूपेण द्वेषेण भवा द्वेषिकी किया २४, अकषायिणां केवलकायजयोगबन्धेन ईर्यापथिक्यां मागंशोधने भवा ईर्यापथिकी क्रिया २५ ॥ अथ संव. रस्य सप्तपश्चाशद्भेदानाह