________________
॥ अव यादिसमेतं झासनणयः॥ (२७ ) अप्रथमसंस्थानामि न्यग्रोधपरिमण्डलसादिवामनकुन्जहुण्डकरूपाणि ५ ॥ अथ द्विचत्वारिंशदाश्रवभेदानाह --
(०)-यदुदयादेकद्वित्रिचतुरिन्द्रियजातिषूत्पादस्ता जातयः ६६, यदुदयादशुभगतिविशेषो जायते सा अशुभविहायोगतिः ६७, यदुदयादङ्गोपाङ्गानां विघातः स उपघातः ६८, यदुदयादशुभक र्णगन्धरसस्पर्शानामुत्पादस्तदशुभवर्णगन्धरसस्पर्शचतुष्टयम् ७२, - थमसंहननसंस्थानरहितानि पञ्चसंहनानि संस्थानानिच । तत्र यदुदयात्कीलिकारहितं सपट्टबन्धोभयमर्कटास्थिरूपं तत् ऋषभनाराचसंहननम् ७३, यदुदयात्कीलिकापट्टबन्धरहितोभयमर्कटबन्धरूपोऽस्थिरचनाविशेषस्तन्नाराचसंहननम् ७४, यदुदयादेकस्मिन् पार्थे मर्कटबन्धरूपोऽस्थिरचनाविशेषस्तदर्द्धनाराचसंहननम् ७५, यदुदयात्कीलिकारूपाऽस्थिरचना तत्कीलिकासंहननम् ७६, यदुदयात्परस्परमस्थ्नां मेलस्तच्छेदावर्त्तसंहनम् ७७ । इति संहननपञ्चकम् ॥ यदुदयानाभेरुपरि विस्तरबहुलं अधस्तु हानादिकप्रमाणं वपुर्जायते तन्यग्रोधपरिमण्डलसंस्थानम् ७८, यदुदयानामेरधः परिपूर्णलक्षणमुपरि तु प्रमाणलक्षणविसंवादि वपुर्जायते, तत्सादिसंस्थानम् ७९, यदुदयात्पाणिपादशिरोग्रीवं यथोक्तं लक्षणादियुक्तं शेष तूदरपृष्टादि न्यूनाधिकप्रमाणं वपुर्भवति तत्कुब्जसंस्थानम् ८०, यदुदयात्पाणिपादायधस्तनः काय उपरितनः शिरोग्रीवादिकश्च विसंवादी भवति । शेषो मध्यकायो यथायुक्तः स्यात् तद्वामनसंस्थानम् ८१, यदुदयात्सर्वावयवेषु प्रायो यथोक्तलक्षणादिमुक्तं वपुर्भवति तत् हुण्डकसंस्थानम् ८२ । इति संस्थानपञ्चकम्, इति पापतस्वस्य घशीतिप्रकृतयो भवन्तीति गाथायुगलार्थः । पापतत्त्वमुक्तम् । अथ पञ्चमाश्रवतत्वभेदान्गाथाचतुष्टयेनाह ॥
( सा० अ०) ' एगि' एकेंद्रियजातिः यया जीवानां एकद्रियत्वं भवति सा एकेंद्रियाहि तुरिद्रियः