________________
( २६ ) ॥ श्रीनवतत्वपरिशिष्टानि. नं. घ थी ज. ( ६ थी १० ) ॥
चविंशतिः, ते चैवं षोडश कषायाः नव नोकषायाः । तत्र कषायाःक्रोध - मान-माया - लोभरूपाः । प्रत्येकं चतुष्प्रकाराः । अनंतानुबंधिक- अप्रत्याख्यानक- प्रत्याख्यानक- लंज्वलनभेदेर्वोद्धव्याः । तत्र अनंतानुबंधिका आजन्मावधिभाविनः नरकगतिप्रदायिनः सम्यक्त्वघातिना ज्ञेयाः । अप्रत्याख्याना वर्षावधिभाविनः तिर्यग्गतिदा'यिनः देशविरतिघातिनः । प्रत्याख्याना मासचतुष्टयभाविनः मनुष्यगतिदायिनः साधुधर्मघातिनः । संज्वलनाः पुनः पक्षावधयो देवगतिप्रदाः केवलज्ञानघातिनः । एवं क्रोधादयः प्रत्येकं चतुर्भेदाः षोडशाऽभुवन् । नोकषाया नव हास्यादिषट्कवेदत्रयरूपाः । तत्र हास्यषट्कं हास्य-रति-अरति-शोक-भय जुगुप्सा लक्षणं ज्ञातव्यम् । तत्र येन सनिमित्तं निर्निमित्तं वा हास्यं स्यात् तत् हास्यमोहनीयं । येन मनोहरेषु शद्वरूप दिपदार्थेषु रागः स्यात्तत् रतिमोहनीयम् । येन पुनः अमनोहरेषु तेषु उद्वेगः स्यात् तत् अरतिमोहनायं । येन अभीष्टवियोगादिदुःखं ध्रियते तत् शोकमोहनीयं । येन जीवानां नानाविधनिमित्तैर्भयमुत्पद्यते तत् भयमोहनीयं । येन बीभत्सवस्तुदर्शनेन निंदादिकं करोति तत् जुगुप्सा मोहनीयं । अथ वेदत्रय पुंवेद - स्त्रीवेद नपुंसकवेदरूपं । तत्र येन स्त्रिय प्रति अभिलाषः स्यात् स पुंवेदः तृणदाहतुल्यः । येन पुरुषं प्रत्यभिलाषः स्यात्स स्त्रीवेदः करीषदा हतुल्यः । येन पुंस्त्रीविषये अभिलाषः स्यात् स नपुंसकवेदः नगरदाहतुल्यः । एवं षोडशकषः यैः नवनोकषायैः कषाय पंचविंशतिर्व्याख्याता । एवं पूर्वोक्त पंचत्रिश त्कषाय पंचविंशतिमीलने षष्टिर्भेदाः । तिर्यगूहिकं तिर्यग्गतिर्थिंगानुपूर्वरूपं । येन तिर्यग्गतौ गम्यते सा तिर्यग्गतिः । ६१, येन तिर्यग्गतौ बलान्नीयते सा तिर्यगानुपूर्वी । ६२ ॥
1
इगबितिचउजाईओ, कुखगइउवधाय हुंति पावस्स । अपसत्थं वन्नचऊ, अपढमसंघयणसंठाणा ॥ ११ ॥ २२ ॥
( प्रा० अ० ) - एकेन्द्रिय १ द्वीन्द्रिय २ त्रीन्द्रिय ३ चतुरिन्द्रिय ४ जातयः, कुत्सित विहायोगतिः, उपघातः " उवघायां उवहम्मइ, सतणुवयवलं बिगाई हिं”, अप्रशस्तं वर्णादिचतुष्कं प्रथमवजंसंहननानि ऋषभनाराचनाराचार्द्धनाराचकीलिकासेवार्त्तरूपाणि ५५