________________
॥अव० वृत्यादिसमेतं नवतावप्रकरणम् ।। . . ( २५) कालोकविषयं केवलज्ञानं, तस्य आवरणं केवलज्ञानावरणं । ५, तथा अंतरायपंचकं व्याख्यायते । तच दानांतराय-लामांतराय-भोगांतराय-उपभोगांतराय-वीयांतरायरूपं । येन कर्मणा विसे पात्रे च प्राप्ते सति दामफलं जानन्नपि न ददाति तहानांतरायं । १, येन सामग्रीसमायोगेऽपि लाभो न स्यात् तल्लाभांतरायं । २, येन भोग्यवस्तुप्राप्तावपि भोक्तुं न लभते तद्भोगांतरायं । ३, येन उपभोग्यवस्तुषु विद्यमानेष्वपिउपभोक्तुं न शक्नोति तत् उपभोगांतरायम्। ४, येन नीरोगोऽपि वयस्थोऽपि हीनबलः स्यात् तद्वीतिरायं । ५, पंचकद्वयमीलने दशकं ज्ञातव्यम् । अथ द्वितीये कर्मणि नवभेदाः । ते चेत्थं । चत्वारि दर्शनावरणानि पंच निद्राश्च । तत्र दर्शनावरणानि चक्षुर्दर्शनावरणं अचक्षुर्दर्शनावरणं अवधिदर्शनावरणं केवलदर्शनावरणं । ग्लेन चक्षुर्दर्शनमाव्रियते तच्चक्षुर्दर्शनावरणम् ११, येन अपरेंद्रियदर्शनमावियते तत् अचक्षुर्दर्शनावरणम् १२, येन अवधिदर्शनमावियते तत् अवधिदर्शनावरणं । १३, येन केवलदर्शन मावियते तत्. केवलदर्शनावरणम् १४, घटपटादिसार्थसामान्याकारपरिज्ञानं दशनं ज्ञातव्यम् । पदार्थविशेषाकारपरिझानं पुनर्ज्ञानं ज्ञातव्यं । अयमेवं च ज्ञानदर्शनयोर्भेदः। अथ निद्रापंचकं निद्रा-निद्रानिद्रा-प्रचला-प्रचलाप्रचला-स्त्यानद्धिलक्षणं । तत्र यस्यां सत्यां सुखेन जागतिं सा निद्रा । १५, यस्यां पुनर्दुःखेन जागर्ति सा निद्रानिद्रा । १६, स्थितस्य उपविष्टस्य वा या समागच्छति सा प्रचला । १७, मार्गे गच्छतः स्वतः या समागच्छति सा प्रचलाप्रचला । १८, या दिनचिंतितं कार्य रात्रौ करोति वासुदेवार्द्धबला च स्यात् सा स्त्यानद्धिः । १९, एवं दर्शनचतुष्कनिब्रापंचकमीलने नव भेदाः पूर्वोक्तसहिता एकोनविंशतिर्जाता । नीचैर्गोत्रं यदुदयाजीवानां नीचकुले जन्म स्यात् । २०, असातावेदनीयं येन जीवा दुःखपरंपरां लभते तच्च प्रायस्तियंग्नरकेषु स्यात् । २१, मिथ्यात्वं-"अदेवे देवबुद्धिर्या, गुरुधीरगुरौ च या। . अधर्मे धर्मबुद्धिध, मिथ्यात्वं तन्निगद्यते" ॥१॥ इत्यादि लक्षणम् । २२ । स्थावरदशकं अग्रे व्याख्यास्यते । ३२ । नरकत्रिकं नरकगति-नरकायु-नरकानुपूर्वीलक्षणं । यया जीवो नरके याति सा नरकगतिः । ३३, येन जीवो नरके तिष्टति तन्नरकायुः । ३४, यया जीवो बलांन्नरके नीयते सा नरकानुपूर्वी । ३५, कषायाः पं