________________
(२४ ) ॥श्रीनवतत्त्वपरिशिष्टानि. नं. घ थी ज.(६ थी १० ) ॥ क्रोधमानमायालोभोदयात् सम्यक्त्वप्राप्तिर्न भवति । अप्रत्याख्यान क्रोधमानमायालोभोदयात् न देशविरतिचारित्रमाप्तिः, प्रत्याख्यान क्रोधमानमायालोभोदयान्न यतित्वमाप्तिः, सज्वलनक्रोधमानमायालोभोदयान्न वीतरागत्वम् । इति षोडशकषायाः। यदुदयात्सनिमित्तमनिमित्तं वा परं हसति तत् हास्यमोहनीयकर्म १, यदुदयाच्छोभनपदार्थावलोकनेन प्रीतिः तद्रतिमोहनीयम् २, यदुदयादशुभपदार्थविलोकनेनोद्वेगो भवति तदरतिमोहनीयम् ३, यदुदयात्सुहृदादिजनविघाते शीर्षहृदयदहनप्रलापादिकरणं तच्छोकमोहनीयम् ४, यदुदयादिहपरलोकाकस्मादाजीवमरणाश्लाघाभया जायन्ते तद्भयम् ५, यदुदयाबाह्याभ्यन्तरदुर्गन्धद्रव्येषु घृणा सा जुगुप्सा ६, यदुदयात्पुरुष स्त्रारभिलपति स स्त्रीवेदः ७, यदुदयात्पुंसः स्युपर्यभिलाषः स पुंवेदः ८, यदुदयात् स्त्रीपुंसोरुपर्यभिलाषः स नपुंसकवेदः ९ इति नोकषायाः ६० ॥ यदुदयात्तिर्यग्गतितिर्यगानुपूर्दोरुत्पादस्तत्तिर्यग्द्वयम् ६२॥
( सा० अ०) 'नाणंतरायदसा इति' ज्ञानावरणीयपं. चकं अंतरायपंचकं च एवं दशकं ज्ञातव्यं । ज्ञानावरणपंचकं उच्यते । मतिज्ञानावरणं १ श्रुतज्ञानावरणं २ अवधिज्ञानाव. रणं ३ मन:पर्यायज्ञानावरंणं ४ केवलज्ञानावर ५ । तत्र मतिज्ञानावरणं पंचभि : इंदियै : षष्ठेन मनसा जीवस्य यद् झानं स्यात् तन्मतिज्ञानम् । तस्य आवरणं मतिज्ञानावरणं। १, श्रुतं द्विधा द्रव्यश्रुतं भावश्रुतं च, द्रव्यश्रुतं द्वादशांगीलक्षणं । भावश्रुत द्वादशांगीसमुत्पन्नोपयोगरूपं, तस्य श्रुतज्ञानस्य आवरणं श्रुतज्ञानावरणं । २. अवधिज्ञानं द्विप्रकारं गुणहेतुकं भवहेतुकं च । देवनारकाणां भवहेतुकं, श्राद्धसाधूनां गुणहेतुकं स्यात् । तस्य आवरणं अवधिज्ञानावरणं । ३, मनःपर्यवज्ञानावरणं मनःपर्यायज्ञानं सार्द्ध द्वितय द्वीपसमुद्रस्थितसंज्ञिपंचेंद्रियमनोविषयं द्विभेदं ऋजुमतिविपुलमतिरूपं साधूनामेव भवति । तस्य आवरणं मन.पर्यवज्ञानावरणं । ४, केवलज्ञानावरणं घनघातिचतुष्टयक्षयसमुत्पन्नं सकललो