SearchBrowseAboutContactDonate
Page Preview
Page 86
Loading...
Download File
Download File
Page Text
________________ ॥ अथ० वृत्यादिसमेत नवतस्वप्रकरणम् ॥ ( २३ ) वृणोति तत्केवलदर्शनावरणम् १४, यदुदयात् सुप्तः सुखेन प्रतिबुदयते सा निद्रा १५, यदुदयात्सुप्तो बहुवारं शद्वादिकरणेन दुःखेन प्रतिबुद्धयते सा निद्रानिद्रा १६, यदुदयादुपविष्टस्योर्ध्वस्थितस्य वा प्रमीला समभ्येति सा प्रथला १७, यदुदयान्मार्गे चलतोऽपि निद्रा समेति सा प्रचलाप्रचला १८, यदुदयादत्यन्तसङ्क्लिष्टपरिणामादिनचिन्तितमर्थरूपं निद्रांगतः साधयति सा स्त्यानद्धिः १९, । एवं नवप्रकारं दर्शनावरणम् , यदुदयाद्भरिमतिधनसम्पन्नोऽपि सल्लोकैनिन्द्यते नीचकुले उत्पद्यते वा तन्नीचैर्गोत्रम् २०, यदुदयानरकेषु तिर्यक्षु च दुःखमनुभवति तदसासावेदनीयम् २१, यदुदयात्संक्लिष्टपरिणामः सन् जिनधर्मद्वेषी तन्मिथ्यात्वम् २२, 'थावरदसगत्ति तच्च दशधा, स्थावरमूक्ष्मापर्याप्तसाधारणास्थिरा शुभदुर्भगदुस्वरानादेयायशःकीर्तिभेदात् , : यदुदयात्पृथ्वीकायादिष्त्पद्यते तत्स्थावरकर्म २३, यदुदयात्सूक्ष्मपृथ्वीकायादिषूत्पद्यते तत्सूक्ष्मकर्म २४, यदुदयात्सर्वपर्यातिभिरपर्याप्तः तदपर्याप्तकर्म २५, यदुदयादेकस्मिन्नौदारिकशरीरेऽनन्तानां जीवानामुत्पत्तिस्तसाधारणनामकम्म २६, यदुदयाजिहाभ्रप्रभृतिचलपदार्था निष्पद्यन्ते तदस्थिरनामकर्म २७, यदुदयात्पायूपस्थाद्यङ्गान्युत्पद्यन्ते तदशुभनामकर्म २८, यदुदयात्सर्वे लोका निन्दन्ति तदुर्भाग्यनामकर्म २९, यदुदयाद्विरसो ध्वनिरुत्पद्यते तदुःस्वरनामकर्म ३०, यदुदयात्सर्वे जीवा न बहुमन्यन्ते तदनादेयनामकर्म ३१, यदुदयात्सर्वैरपि निन्द्यते तदयशोनाम अकीतिनामकर्म ३२, इति स्थावरदशकं ॥ यदुदयान्नरकगतिर्नरकानुपूर्वी नरकायुश्च जायन्ते तन्नरकत्रिकं ३५ । 'कसायपणवीस त्ति अनन्तानुबन्ध्यप्रत्याख्यानप्रत्याख्यानसञ्ज्वलनक्रोधमानमायालोमभेदात् षोडश कषायाः, हास्यरत्यरतिशोकमयजुगुप्सास्त्रीवेदपुवेदनपुंसकवेदभेदानव नोकषायाः, उभयमीलनात् पञ्चविंशतिर्भवन्ति । तत्रानन्तानुबन्धि
SR No.002216
Book TitleNavtattva Sahitya Sangraha
Original Sutra AuthorN/A
AuthorUdayvijay
PublisherMansukhbhai Manekbhai
Publication Year1922
Total Pages250
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy