________________
( २२ ) ॥ श्रीनवतस्वपरिशिष्टानि. नं. घ थी ज. (६ थी १० ) ।। २ । अवधिज्ञानं तु अनुगामि यत्र तत्र तत्सहैव याति १, अननुगामि यत्रोत्पन्नं तत्रेव तिष्ठति, न तेन सह स्थानान्तरं याति २, हीयमानं पूर्व बहूत्पद्यते पश्चाच्च हीयते ३, प्रवर्द्धमानं पूर्व स्वल्पमुत्पद्यते पश्चात् प्रवर्द्धते ४, अनवस्थितं यदृच्छयोत्पद्यते याति च ५, अवस्थितं यावन्मात्रमुत्पद्यते तावन्मात्रमेव तिष्ठति ६ । यदुदयादेवं षड्भेदमवधिज्ञानमात्रियते तदवधिज्ञानावरणं ३ । मनःपर्यवज्ञानं च तत्र ऋजुमतिर्मनुष्यक्षेत्रगतसंज्ञिपञ्चेन्द्रियमनोभावमस्पष्ट किश्चिन्यूनं पश्यति सा ऋजुमतिः, विपुलमतिः सम्पूर्ण सुस्पष्टं च पश्यति सा विपुलमतिः। यदुदयात् एवं द्विप्रकारं मनःपर्यवज्ञानमात्रियते तन्मनःपर्यवज्ञानावरणम् ४। केवलज्ञानं तु लोकालोकप्रकाशकम् , यदुदयात्केवलज्ञानमात्रियते तत्केवलज्ञानावरणम, ५ । एवं पञ्चविधं ज्ञानावरणम् । 'अंतराय'त्ति अन्तरायः पञ्चधा, दानलाभभोगोपभोगवीर्यान्तरायभेदात् । तत्र यदुदयाद्दाता दानफलवेत्तापि प्रासुकाअपानवस्त्रादिभागपि सामय्यां सत्यामपि यन्न दातुमिच्छति, स दानान्तरायः १, यदुदयात्प्रसिद्धो दाता दातुनिपुणोऽपि याचको वित्तादि नाप्नोति स लाभान्तरायः २, यदुदयान्मनुष्योऽपि भोगोपभोगसामग्र्यां स्वाधीनायां भोक्तुमुपभोक्तुं च न शक्नोति, तौ भोगोपभोगान्तरायौ ४, यदुदयात् नीरोगस्य तरुणस्य बलवतोऽपि निर्वीर्यता स्यात् स वीर्यान्तरायः ५, एवमन्तरायपञ्चकम् । इति ज्ञानान्तरायदशकम् ॥ 'नव बीर' इति, द्वितीयदर्शनावरणाख्ये कर्मणि नव प्रकृतयः चक्षुर्दर्शनाचक्षुर्दर्शनावधिदर्शनकेवलदर्शननिद्रानिद्रानिद्राप्रचलाप्रचलाप्रचलास्त्यानद्धिरूपाः । यदुदयाचक्षुषो दर्शनं सामान्यबोधमाकृणोति तचक्षुर्दर्शनावरणम् ११, यदुदयात् ग्वज शेषेन्द्रियाणां दर्शनं सामान्यावबोधमाणोति तदचक्षुर्दर्शनावरणम् १२, यदुदयादवधेर्दर्शनं सामान्यबोधमादृणोति तदवधिदर्शनावरणम् १३, यदुदयात्केवलदर्शनं सामान्यावबोधमा