________________
॥ अव० वृत्यादिसमेतं नवतत्त्वप्रकरणम् ॥ (२१) ।
नव नोकषायाः । एवं २५, सज्वलनप्रत्याख्यानकाप्रत्यख्यानकानन्तानुबन्धकोधाः ४। एवं मानाः ४, मायाः ४, लोभाः ४, एवं १६ । हास्यरत्यरतिशोकभयकुत्तापुंस्त्रीनपुंसकवेदाः ९ । तिर्यग्गतिः १, तिर्यगानुपूर्वी २ ॥
(३०)-पश्चविधज्ञानावरणपञ्चविधान्तरायमीलनात् ज्ञानान्तरायदशकं भवति । तत्र ज्ञानावरणं पञ्चविधम् , मतिश्रुतावधिमनःपर्यायकेवलावरणभेदात् । तत्र मतिज्ञानं व्यजनार्थावग्रहाभ्यां द्विधा, तत्र व्यञ्जनानि पुद्गलान्यादत्ते व्यअनावग्रहः । स च नयनमनोभ्यां पुद्गलान् न गृह्णाति, तत्पाटनपूरणप्रसङ्गात्, शेषेन्द्रियचतुष्केण गृह्णाति इति व्यअनावग्रहश्चतुर्धा। अर्थावग्रहस्तु पदार्थपरिच्छेदः, स चावग्रहेहापायधारणाभेदेन प्रत्येकं षडिन्द्रियसम्बन्धेन चतुर्विंशतिधा, तत्र प्रथमाक्षिसन्निपातेन सामान्यतः पदार्थदर्शनमवग्रहः। किमयं स्थाणुर्वा पुरुषो वेतीहा । काकादिसन्निपातदर्शनात् स्थाणुरेवायं न पुमानित्यपायः। पुराप्यत्र स्थाणुरेवासीदिति धारणा । एवं मनोयुक्तैः शेषेन्द्रियैरपि अवग्रहादिकल्पना कार्या । एवं यदुदयादष्टाविंशतिभेदं मतिज्ञानमात्रियते तन्मतिज्ञानावरणम् ।। श्रुतज्ञानं पुनः अक्षरश्रुतं वर्णात्मकम् १, अनक्षरश्रत सेंटिकाचप्पुटिकादिवादनम् २, संज्ञिश्रुतं पश्चेन्द्रियशब्दादि , असंज्ञिश्रुतं द्वित्रिचतुरसंज्ञिपश्चन्द्रियशब्दादि ४, सम्यक्श्रुतं जिनोक्तवचनम् ५, मिथ्याश्रुतं. मिथ्यादृष्टिप्ररूपितं शास्त्रम् ६, सादिश्रुतं प्रतितीर्थकरतीर्थापेक्षया नवनवसूत्रकरणं ७, अनादिश्रुतं प्रवाहरूपेणार्थस्य सर्वतीर्थङ्करतीर्थेषु प्रवर्त्तनम् ८, सपर्यवसितं प्रतितीर्थङ्करतीर्थप्रान्ते सूत्रविच्छेदः ९, अपर्यवसितं तदर्थापेक्षया विच्छेदाभावः: १०, गमिकं सदृशपाठरूपम् ११, अगमिकं असदृशपाठात्मकम् १२, अङ्गप्रविष्टं द्वादशाङ्गीसूत्रगतम् १३, अनङ्गमाविष्टं प्रकरणादिगतम् १४ । यदुदयादेवं चतुर्दशधा श्रुतज्ञानमात्रियते तत् श्रुतज्ञानावरणं