________________
( २० ) ॥ श्रीनयतस्वपरिशिष्टानि. नं. घ थी ज. ( ६ थी १० ) ॥
तीनां ज्ञेयाः । अथ पूर्वोक्तं त्रसदशकं व्याख्यानयति । प्रसनाम कर्म येन " त्रस्यंति उष्णाद्यभितप्ताः छायादौ गच्छतीति प्रसा:" ह्रींद्रियादिनामकर्मोदयवर्तिनो जीवाः । १, बादरनामकर्म येन जीवा बादरा स्थूलाश्चक्षुर्याद्या भवंति येन मनुष्यैर्जीवशरीरं दृश्यते इति भावः । २, पर्याप्तिनामकर्म येन जीवा निजपर्याप्तियुक्ता भवंति । ३, प्रत्येकनामकर्म येन एकस्मिन् जीवशरीरे एक एव जीवः । ४, येन बहवो जीवा एकशरीरे भवंति तत्साधारणं नामकर्म पापप्रकृतिमध्ये कथयिष्यते । स्थिरनामकर्म येन जीवानां दंतास्थ्यादि स्थिरं स्यात् । ५, शुभनामकर्म येन जीवानां नाभेरूर्ध्वशरीरं शुभं स्यात् । ६, सुभगनामकर्म येन जीव: सर्वजनवल्लभः स्यात् । ७, सुस्वरनामकर्म येन जीवानां माधुर्यादिगुणसुस्वरः स्यात् । ८, आदेयनाभकर्म येन जीवः सर्वजनमान्यवचनः स्यात् । ९, यश: कीर्तिनामकर्म येन जीवो यशःकीर्तियुक्तो भवति । १०, एवंद्विचत्वारिंशद्भेदभिन्नं तृतीयं पुण्यतरत्वं प्ररूपितम् ॥
[ तस बायर पज्जन्त्तं, पत्तेयथिरं सुभंच सुभगं च । सूसर आएज्जजसं, तसाइदसगं इमं होइ ॥ ११ ॥] २० ॥ [ (अ०) व्याख्यातस्वरूपेयम् ॥ ]
नाणंतरायदसणं, नव बीए नीअसायमिच्छन्तं । थावरदस नरयतिगं, कसार्थपणवीस तिरिअदुगं ॥ १० ॥२१॥
(प्रा० अ० ) नाणं० ज्ञानान्तरायकर्मणोर्दशकं मत्यादिज्ञानाधरणपञ्चकं दानलाभभोगोपभोगवीर्यान्तरायपञ्चकं च । द्वितीये दर्शनावरणीये कर्म्मणि नव कर्म्मप्रकृतयो भवन्ति । चक्षुरचक्षुरवधि केवलदर्शनावरणानि ४, निद्रा १ निद्रानिद्रा २ प्रचला ३ प्रचलाप्रचला ४ स्त्यानर्द्धि ५ रूपाः पञ्च निद्राः । एवं ९ । नीचैगौत्रं, असातावेदनीयं, मिथ्यात्वं, "थावर १ सुहुम २ अप ३. साहारण ४ अथिर ५ असुभ ६ दुभगाणि ७ । दूसर ढं ज्ज्ञ ९ जसं १०, थावर दसगं विवजत्थं " ॥ १ ॥ नरकत्रिकं नरकगतिनरकानुपूर्वीनरकायूरूपं, 'कसा यपणवीसंति' षोडशकषायाः
अणाइ