________________
॥ भव० वृत्वादिसमेत नवतावप्रकरणम् ॥ . (१९) ३४, यदुदयात् सर्वजनमियत्वं भवति तत्सुभगनामकर्म ३५, यदुदयात् वेणुवीणादिवन्मधुरध्वनिरुत्पद्यते तत् सुस्वरनामकर्म ३६, यदुदयात् सर्वत्र मान्यता तदादेयनामकर्म ३७, यदुदयाचशः कीर्तिश्च लभ्यते तद्यश कीर्तिनामकर्म ३८, इति त्रसदशकम् । यदुदयात् सुरनरतिर्यगायुरुत्कृष्टमायुस्तत्सुरनरतिर्यगायुरिति ३९. ४०-४१ । ननु तिर्यगायुषः कथमुत्तमत्वम्, उच्यते, तस्यापि युगलिकतिर्यगपेक्षया प्रधानत्वं,पुण्यप्रकृतित्वात् । येनसुरेन्द्रनरेन्द्रादिभिः पूजितः स्यात् तत्तीर्थकरनामकर्म ४२॥ इति द्विचत्वारिंशत्पुण्यप्रकृतय इति गाथाद्वयार्थः ॥ पुण्यतत्त्वस्वरूपमुक्त्वा चतुथपापतत्वस्य प्रकृतसङ्ख्यां गाथाद्वयेनाह- .
(सा० अ०) वर्णचतुष्कं वर्णगन्धरसस्पर्शरूपम् १८-१९-२०२॥ अत्र पुण्यप्रकृधिकारे प्रशस्तं ग्राद्यं, अप्रशस्तं पुनः पापप्रकृत्यधिकारे कथयिष्यते । अगुरुलघुनामकर्म येन कर्मणा जीवानां शरीरं न गुरुलघु स्यात् किंतु समताभावे स्यात् । २२, पराघात नामकर्म येन परेषां बलवतामपि जीवः अनाकलनीयः स्यात् । २३, उच्छासनामकर्म येन जीवः श्वासोच्छासलब्धियुक्तः स्यात्। २४, आतपनामकर्म येन जीवस्य स्वयमनुष्णमपि उष्णप्रकाशसंयुक्तं शरीरं स्यात् यथा सूर्यमंडले पृथ्वीकायजीवानां, इदं सूर्यमंडले एव नान्यत्र २५ । उद्योतनामकर्म येन जीवानां अनुष्णप्रकाशयुक्तं शरीरं स्यात्, यथा चंद्रमंडलज्योतिश्चकादिषु । २६, शुभखगति: शुभविहायोगतिनामकर्म, विहायसा नभसा गतिः गमनं विहायोगतिः । २७, विहायोग्रहणं चतुर्गतिव्यामोहविच्छेदार्थ । यया जीवानां शुभा गतिः स्यात्, यथा हंसगजवृषभादीनाम् । निर्माणनामकर्म येन जीवशरीरे अंगप्रत्यंगानां नियतप्रदेशव्यवस्थापन क्रियते यथा सूत्रधारेण पुत्तलिकादौ । २८, त्रसदशकं अग्रे व्याख्यास्यते । ३८, सुरनरखियंगायुत्रितयं यैः कर्मभिः देवमनुष्यतिर्यग्भवेषु जीव्यते । ४१, तीर्थकरनामकर्म येन चतुर्विंशदतिशयादितीर्थकरऋद्धिसंयुक्तो जीवः त्रिभुवनस्यापि पूज्यः स्यात् । ४२, केवल्यवस्थायां तस्योदयः स्यात् । इति विचत्वारिंशत् भेदा; पुण्यप्रकृ.