________________
(२८) ॥ श्रीनवतरवारशिष्टानि. नं. घ थी ज.(६ थी १०)॥ जातयो ज्ञेयाः। ६४-६५-६६, कुखगति: यया जीवानां अशुभगतिः, यथा खरोष्ट्रादीनाम् । ६७, उपघातनामकर्म येन स्वशरीरावयवः प्रतिजिव्हा-गलकंठिका-चोरदंतादिभिः उपहन्यते तत् उपघातनाम कर्म । ६८, अप्रशस्तं वर्णचतुष्कं वर्ण-गंध-रस-स्पर्शस्वरूपं । ६९७०-७१-७२, प्रथमं संहननं प्रथमं संस्थान वर्जयित्वा शेषाणि पंच संहननानि पंच संस्थानानि च पापप्रकृतिमध्ये ज्ञातव्यानि । प्र. थम संहननं प्रथमं संस्थानं पुण्यप्रकृतिमध्ये पूर्वमेव कथितं । तत्र संहननानि वज्रऋषभनाराच १ ऋषभनागच २ नाराच ३ अर्द्धनाराच ४ कीलिका ५ सेवार्तरूपाणि । यस्मिन् अस्थिसंधी उभयतो मर्कटबंधः पट्टः कीलिका च स्यात् सत् वज्रर्षभनाराचं तत्पुण्यप्रकृतिमध्ये ज्ञातव्यम् । कीलिकारहितं ऋषभनाराचं । ७३, अस्थिसंधौ उभयतो मर्कटबंध: स्यात् तन्नाराचं । ७४, यत्रैकपाचे मर्कटबंधोऽपर पार्श्वे च कीलिका स्यात् तत् अर्द्धनाराचं । ७५, यत्रास्थीनि कीलिकामात्रबद्धानि स्युः तत्कीलिकाख्यं । ७६, यत्र पुनः अस्थीनि पृथक स्थितानि परस्परं संलग्नानि भवंति तत् सेवात्तै । ७७, नित्यं स्नेहाभ्यंगादिसेवया ऋतं व्याप्त सेवा इति नामार्थः । एवं पंच संहननानि पापप्रकृतिमध्यंगतानि व्याख्यातानि । अथ संस्थानानि तान्याकारविशेषरूपाणि समचतुरस्रपर्यकन्यग्रोधपरिमंडल-सादि-कुब्जक-वामन-हुंडाख्यानि । तत्र समचतुरस्रपर्यंकं पर्यकासनोपविष्टजनबिंबानामिव ज्ञातव्यं तच्च पुण्यप्रकृतिमध्ये पूर्वोक्त। न्यग्रोधं यथा न्यग्रोधो वटः उपरि संपर्णावयवः अधस्तु हीनः तथा नाभेरुपरिलक्षणोपेततया संपूर्ण अधस्तु हीनं यत्संस्थानं तन्यग्रोधपरिमंडल। ७८, सादिसंस्थान सह आदिना वर्तते तत्सादि । नाभेरधस्तात् यथोक्तलक्षणप्रमाणोपेतं पुनः उपरि हीनं इति भावः । ७९, कुब्जसंस्थानं यत्र पादपाणिशिरोग्रीवादिकं प्रमाणलक्षणोपेतं उरउदरादि च हीनं तत् कुब्जं । ८०, तद्विपरीतं वामनसंस्थानं । ८१, सर्वावयवैरशुभं हुंडसंस्थानं । ८२, सां. प्रतं प्रायो मनुष्याणां तदेव । एवं द्वयशीतिः पापप्रकृतयो व्याख्याताः । अथ पूर्वमुक्तं स्थावरदशकं व्याख्यायते । तिष्टंति उष्णादितापिता अपि तत्परिहारासमर्था भवति ते स्थावराः, ते सर्वेप्येकेंद्रिया ज्ञातव्याः । स्थावरत्वप्रदायकं कर्म स्थावरनामकर्म । १, सूक्ष्मनामकर्म येन जीवाश्चर्मचक्षुषामदृश्या भवंति, यथा निगो