SearchBrowseAboutContactDonate
Page Preview
Page 79
Loading...
Download File
Download File
Page Text
________________ ( १६ ) ॥ श्रीनवतत्वपरिशिष्टानि. नं. घ थी ज. (६ थी १० ) ।। यदुदयादुत्तमकुले उत्पत्तिस्तदुच्चैर्गोत्रम् २, यदुदयान्मनुष्यगतौ मनुष्यानुपूर्व्या चोत्पादस्तन्मनुष्यद्विकम् ४, यदुदयादेवगतौ देवानुपूर्व्या चोत्पादस्तद्देवद्विकमेवं ६, तत्रानुपूर्वी कोऽर्थः एतस्माद्देवादिभवाच्च्युतस्य मनुष्यादिभवान्तरं चाप्राप्तस्यान्तराले यः कालः सा अनुपूर्वी । यदुक्तं कर्मग्रन्थेषु 'खित्तविवागाणुपुदी' इति, यदुदयात्पञ्चेन्द्रियजातित उत्पत्तिः सा पश्चेन्द्रियजाति:७, देहाः पञ्च, औदारिक १ वैक्रिय २ आहारक ३ तैजस ४ कार्मणरूपाः तत्र यदुदयादौदारिकमसारपुद्गलमयं तिर्यग्मनुष्यशरीरादिकमुत्पद्यते, तदौदारिकं, यदुदयाद्वेक्रियैः सारतरैः पुद्गलैर्देवनैरयिकादिशरीरमुत्पद्यते तद्वैत्रियं ९, यदुदयाचतुर्दशपूर्वधरः सातागमसंशयः आहारकपुद्गलैर्वनाम्यादिभिरप्यप्रतिहतैः शरीरं करोति तदाहारकशरीरम् १०, यदुदयादाहाररसादिकं जीर्यति तत्तैजसशरीरं ११, यदुदयादितरशरीराभावेनकर्मपुद्गलमयं शरीरं भवति तत्कार्मणं १२, तदन्तरालविग्रहगतौ केवलिसमुद्घातावसरे त्रिसमयमुत्कृष्ट स्यात्। तस्मिंश्च सति जीवोऽनाहारकः तदेवं शरीरपञ्चकं आद्यविकतनूपाङ्गानि, आद्यानामौदारिकवैक्रियाहारकशरीराणामुपाङ्गानि शिरःपृष्टादीनि मिश्ररूपाणि, तथाहि-औदारिकमिश्रमिति त्रयं यदुदयाद्भवतीत्यर्थः, कथमेषां मिश्रसम्भवः १, इति उच्यते-औदारिकं तनुं त्यक्त्वा देवादिगतौ वैक्रियशरीरं सृजतस्तस्मिन्यापूणे मिश्रता । एवं शेषयोरपि तैजसकार्मणयोस्तु न मिश्रत्वम्, अङ्गोपाङ्गाभावादित्युपाङ्गत्रयं१५, आदिमसंहननसंस्थाने, संहननानि षट् , तत्रादिमं संहननं वज्रर्षभनाराचं, तस्य किं स्वरूपम् । ? इत्युच्यते- वज्र कीलिका, ऋषभः पट्टबन्धः,उभयतो मर्कटबन्धः नाराचं,यदुदयादेवमस्थिरूपना(रचना) यत्र तद्ववर्षभनाराचसंहननम् । संस्थानानि षट् तेष्वादिमं संस्थान समचतुरस्राख्यं प्रमाणोपेतो धःकायरूपं यदुदयाद्भवति १७
SR No.002216
Book TitleNavtattva Sahitya Sangraha
Original Sutra AuthorN/A
AuthorUdayvijay
PublisherMansukhbhai Manekbhai
Publication Year1922
Total Pages250
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy