________________
॥ अव० वृत्यादिसमेतं नवतत्वप्रकरणम् ॥ (१५ ) शानां कायः समूह अस्तिकाय इति व्युत्पत्ते, धर्माधर्माकाशद्रव्याण्येकैकानि । अवमा हदानसामर्थ्यादाधाररूपं क्षेत्रमाकाश एव, जीवपुद्गलौ विस्रसाप्रयोगाभ्यां क्रियावन्तौ, धर्माधर्माकाशकालानि यद्रव्याणि शाश्वतस्वरूपाणि, पुद्गलजीवौ तु परिणामित्वादेवानित्यौ, धर्माधर्माकाशकालपुद्गला: गतिस्थित्यवगाहवर्तनाशरीरवाङ्मन, प्राणापानादिजीवकार्यहेतव इति पञ्चकारणद्रव्याणि । पुण्यपापबन्धमोक्षादिकर्तृत्वं जीवस्येति कर्ता जीव एव । लोकालोकव्यापित्वरूपं सर्वगतत्वं त्वाकाशस्यैव, लोकाक शव्यापित्वापेक्षया तु धर्माधमयोरचित्तमहास्कन्धावस्थायां पुद्गलस्य केवलिसमुद्घातावस्थायां जीवस्यापि । कालद्रव्यं तु मनुष्यक्षेत्रापेक्षया सर्वव्यापि न तु बहिः। सर्वद्रव्याणामेकस्मिन् क्षेत्रेऽन्योन्यप्रवेशवत्वेऽपि खस्वस्वरूपापरित्यागादप्रवेशत्वम् ॥]". [दुण्णि य एगं एगं, पंचत्ति य एग दुष्णि चउरो य । पंचय एगं एगं, एएसि एय विणणेयं ॥९॥] ॥१६॥
[(अ० ) 'दुण्णि'ति द्वौं जीवपुद्गलौ, एकं जीव, द्रव्यं एकं पुद्गलद्रव्यं, पञ्च धर्माधर्माकाशजीवपुद्गलद्रव्याणि, त्रीणि धर्माधर्मकाशद्रव्याणि, एकमाकाशद्रव्यं, द्वौ जीवपुद्गलौ, चत्वारि धर्माधर्माकाशकालद्रव्याणि, पञ्च धर्माधर्माकाशकालपुद्गलाः, एक जीवद्रव्यमंकमाकाशद्रव्यम् ॥ ]
सा उच्चगोअमणुदुग-सुरदुगपचिंदिजाइपणदेहा । आइतितणूणुवंगा, आइमसंघयणसंठाणा ॥८॥१७॥
(प्रा० अ०) 'सा उ०' शातावेदनीयं कर्म, उच्चैर्गोत्रं, मनुष्यद्विकं मनुष्यगतिर्मनुष्यानुपूर्वी, आनुपूर्वीनाम द्विसमयादिविग्रहण भवान्तरं गच्छतो जन्तोर्वृषभनासिकारज्जुकल्पा अनुश्रेणिनयनमित्यर्थः, देवगतिर्देवानुपूर्वी, पञ्चेद्रियजातिनाम, औदारिकवैक्रियाहारकतैजसकार्मणरूपाण देहानि, औदारिकवैक्रियाहारकाणामङ्गोपाङ्गानि, वज्रर्षभ राचसंहननं, समचतुरस्रसंस्थानं ॥ ८ ॥
(वृ०) यदुदयात् सातं सौख्यमनुभवति तत्सातवेदनीयम् १,