________________
॥ अव० वृष्यादिसमेतं नवतत्वप्रकरणम् ॥ १७ अत्र द्विवचनस्य बहुवचनं प्राकृतत्वात्, यदुक्तं "बहुचयणे दुवयणं, छडिविभत्तीइ भन्नइ चउत्थी । जह हत्या तह पाया, नमुत्थु. देवाहिदेवाणं” इति ॥
(सा० अ०) 'साउञ्चगोअ इति', इति पुण्यतस्वस्य एते द्विचत्वारिंशभेदा भवति । यथा-सातं सातावेदनीयं कर्म, येन जीवः सौख्यानि लभते १, उच्चैर्गोत्रं यस्मिन्नुत्पन्नो जीवः सर्वजनमान्यः स्यात् २, मनुष्यनिक मनुष्यगति-मनुष्यानुपूर्वीरूपम्, यया कर्मप्रकृत्या जीवो मनुष्यगतित्वं लभते सा मनुप्यगतिः३,। यया कर्मप्रकृत्या मनुष्यगतिबद्धायुर्जीवोऽन्यत्र गच्छन् मनुष्यगतौ आनी. यते सा मनुष्यानुपूर्वी ४, । सुरविकं सुरगति-सुरानुपूर्वीरूपं । ५-६, . मनुष्यगति-मनुष्यानुपूर्वीक्त् ज्ञेयं । पंचेंद्रियजातिः यया जीवस्य पंचेंद्रियावं स्यात् । ७, पंच देहाः शरीराणि । औदारिकं वैक्रिय आहारकं तेजसं कार्मणं च । औदारिकं उदारैः स्फारै: पुदगलैः निष्पन्नं तत् औदारिकम् । तिर्यङ्मनुष्याणां योग्यं शरीरम् । ८, वैक्रियं विविधक्रियाया निष्प्रन्नं देवनारकाणां शरीरं तच्च स्वाभाविक वैक्रियलब्धिकृतं च शरीरं ज्ञेयम् ।९, आहारकशरीरं यत् चतुर्दशपूर्वधरैः संदेहोच्छेदाय तीर्थकरऋद्धिदर्शनाय वा महाविदेहगमनार्थ एकहस्तप्रमाणमत्यंतविशिष्टरूपसंपन्नं विधीयते शरीरं तत् आहारकशरीरम् १०,। तैजसशरीरंतत् येन शरीरेण जीवैः आहारो गृहोत: खलरसादिधातुरूपतया परिणति नीयते यद्वशात्तपोलब्ध्या तेजोलेश्या नर्गमश्च क्रियते तत्तैजसं । ११, कार्मणशरीरं अष्टविधकर्म विकाररूपं सर्वशरीरकारणभूतं । १२, तैजसकामणशरीरे संसारिजीवानां अनादिकालसंबद्धे भवत: । मोक्षगमनं विना तयोः कदापि वियोगो न स्यात् । एवं द्वादशपुण्यप्रकृतयोऽभूवन् । आदिशरीरत्रयस्य उपांगानि । औदारिकस्य १३ वैक्रियस्य १४ आहारकस्य १५, तैजसकार्मणयोन भवन्ति । आदिसंहननं वरिषभनाराचसंहननलक्षणं । १६, संस्थानं समचतुरस्ररूपं । १७ ॥
वन्नचउक्का गुरुलहु, परघाऊसास आयवुज्जो। सुभखगइनिमिणतसदस, सुरनरतिरिआऊतित्थयरं९॥१९